________________
अनेकान्तजयपताकाख्यं प्रकरणम् [पनमः
(मूलम्) त्वम् ? । उच्यते-तथासमुदितानामिन्द्रियग्राह्यखभावता, स्थूरत्वमित्यर्थः । कथं सूक्ष्माणां सत्ताऽनुपचये तत् ? तत्तत्वभावतया। ५इयमेव तदनुपचये अन्याय्या, न, तत्स्वभाववैचित्र्यसिद्धेः। अनिदर्शनमभिधानमात्रमेतदिति चेत्, न, निदर्शनभावात् । किं तदेवंविधं लौकिकमिति वाच्यम् । ननु वनभाण्डादिभावः। तत्र हि तुल्ये तौल्ये प्रकटोऽल्पमहत्त्वादिभेदः । न च तदणवो न तुल्याः, तौल्याभेदात् । न च हीनाधिका तत्सत्ता, अत एव हेतोः। न १० चाभिन्न परिणामाऽसौ, दर्शनादिभेदात्, न चातत्वभावत्वेऽयम् , अतिप्रसङ्गात् । इति बादरभावसिद्धिः॥
(स्वो० व्या०) घटादिसंस्थानवता अवतिष्ठन्ते । न केवलमेतद् बादरीभवन्ति च ते परमाणवः ।
आह-किमिदंबादरत्वं नाम ? । उच्यते-तथा-सौक्ष्म्यपरित्यागादिना प्रकारेण १५ समुदितानां सतामिन्द्रियग्राह्यस्वभावता। किमुक्तं भवति ? स्थूरत्वमित्यर्थः । आह-कथं सूक्ष्माणां सतां सत्ताऽनुपचये सति तत्-स्थूरत्वम् १ । एतदाशङ्कयाह-तत्तत्वभावतया तेषामेव-अणूनां तत्स्वभावतया कारणेन । आहइयमेव-तत्तत्स्वभावता तदनुपचये तेषाम् -अणूनामनुपचये सति अन्याय्या। एतदाशङ्याह-न-नैतदेवम् । कुत इत्याह-तत्वभाववैचित्र्यसिद्धेः-अणुस्व२० भाववैचित्र्योपलब्धेः । आह-अनिदर्शनम्-अनुदाहरणमभिधानमात्रं-वचनमात्रमेतद् यदुत तत्स्वभाववैचित्र्यसिद्धेरिति । एतदाशङ्कयाह-न, निदर्शनभावात् । किं तत्-निदर्शनं एवंविधम्-अभिप्रेतार्थसाधकं लौकिक लोके भवमिति एतद् वाच्यमिति परः । ननु वज्रभाण्डादिभाव एवंविधं लौकिकं निदर्शनमित्याचार्यः । तदेव भावयन्नाह-तत्र होत्यादि । तत्र-वज्रभाण्डादौ यस्मात् २५ तुल्ये तौल्ये कर्षाद्यपेक्षया प्रकटः-सर्वलोकसिद्धः । कोऽसावित्याह-अल्पमह
स्वादिभेदः । 'आदि'शब्दात् सारत्वादिग्रहः । न च तदणवः-वज्रभाण्डाणवो न तुल्या एव । कुत इत्याह-तौल्याभेदात् कारणात् । न च हीनाधिका तत्सत्ता-वज्रभाण्डाणुसत्ता । कुत इत्याह-अत एव हेतोः-तौल्याभेदादेव । न
चाभिन्नपरिणामाऽसौ, तत्सत्तेति प्रक्रमः । कुत इत्याह-दर्शनादिभेदात् । ३. अनुभवसिद्धोऽयमशक्यापलापः । न चातत्स्वभावत्वे सति अणूनामयं-भिन्नः
१'तदेवंविधौ लौकिक०' इति क-पाठः। २ भेण्डादि.' इति उ-पाठः। ३ 'भेण्डादौ' इति -पाठः। ४ 'भेण्डाणवः' इति कु-पाठः ।