________________
अधिकारः]
खोपशव्याख्यामुनिधन्द्रीयविवरणयुतम्
यञ्चोक्तम्-'एतेन तत्समूहः प्रत्युक्तस्तेषामेव नैरन्तयविस्थानस्य सत्समूहत्वात् निरवयवानां च तत्त्वतो नैरन्तर्यावस्थानायोगात् सर्वत एकस्य तदपरभावापत्तेः, एवं च निरवयवत्वविरोधात्' इत्यादि। एतदपि यथोदितपरमाणुसमाश्रयणे निरवकाशमेव । तथाहि-त. रन्तर्यावस्थानमेव तेषां तथाखभावतया कथञ्चिदपथग्भूततथाविधैकपरिणामवत् तत्समूहः । नदेव च द्रव्यम् , तेषामेव तत्त्वात् तत्समानधर्मत्वात् तथा तथा तद्रवणात् तद्भावाव्ययत्वात्। स्यादेतत् तेषांतथाखभावतयेति।कोऽर्थः । उच्यते-परमाणूनामेवायं खभावो. येन ते तत्तत्कालाद्यपेक्षया तत्र तत्र तैस्तैर्मियो नैरन्तर्येण विशिष्टसंस्थानवता अवतिष्ठन्ते बादरीभवन्ति च । आह-किमिदं बादर
(स्वो० व्या०) यच्चोक्तं पूर्वपक्षग्रन्थ' एव-एतेन तत्समूहः प्रत्युक्तस्तेषामेव-अणूनां नैरन्तर्यावस्थानस्य । किमित्याह-तत्समूहत्वान्निरवयवानां च तत्त्वतो १५ नैरन्तर्यावस्थानायोगात् । अयोगश्च सर्वत एकस्य-अणोः तदपरभावापत्तेः । एवं च निरवयत्वविरोधादित्यादि । एतदप्ययुक्तं यथोदितपरमाणुसमाश्रयणे सति । किमित्याह-निरवकाशमेव । तद्भावनायैवाह-तथाहीत्यादि । तथाहीत्युपप्रदर्शने । तन्नरन्तर्यावस्थानमेव तस्य-अधिकृताणोनैरन्तर्येण-सर्वतोऽवस्थानं नैरन्तर्यावस्थानमेतदेव । तेषाम्-अणूनां तथास्वभावतया २० कारणेन कथञ्चित् केनचित् प्रकारेण अपृथग्भूतश्चासौ [भूतः] तथाविधैक[त्व परिणामश्चेति समासः ।भूतः-अपरिकल्पितः सोऽस्यास्तीति तद्वत् नैरन्तर्यमेव तत्समूहः-अणुसमूहः। तदेव च-तन्नैरन्तर्यमेव द्रव्यम्। कुत इत्याह-तेषामेवअणूनां तत्त्वात्-तद्भावत्वात् , तत्त्वं च तत्समानधर्मत्वात्-परमाणुसमानधर्मत्वाद् द्रव्यस्य तथा तथा-तेन तेन चित्रसंस्थानरूपेण तवणात् तेषामेव-पर-२५ माणूनां द्रवणात्-गमनात्, द्रवणं च तद्भावाव्ययत्वात्-विशिष्टपरमाणुभावाव्ययत्वेन । तदेव च द्रव्यमिति वर्तते । स्यादेतदित्यादि । स्यादेतत् तेषाम्-अणूनां तथाखभावतयेति। कोऽर्थः । एतदाशयाह-उच्यते-परमाणूनामेवायं खभावो येन ते-परमाणवस्तत्तत्कालाद्यपेक्षया तत्र तत्र-क्षेत्रे तैस्तैःपरमाणुभिर्मिथ:-परस्परं नैरन्तर्येण । किविशिष्टेनेत्याह-विशिष्ट संस्थानवता-३.
१ तृतीये पृष्ठे चतुर्थे च। २ 'वस्थ तस्य' इति क-पाठः। ३ 'पृथग्भूतं तथा.' इति गपाठोऽशुद्धः। ४ ते तत्काला.' इति ग-पाठः। ५ तृतीये पृष्ठ चतुर्थे च । ६ 'तत्परिभावना' इति स-पाठः। ७ 'नरन्तर्येणापि किं.' इति उ-पाठः ।
अनेकान्त. ४