________________
अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम्) भावश्च, काळयोगपक्षे वितरेतररूपापत्तेः, अन्यथा कायं. योगाभावाद् रूपादिमत्त्वानुपपत्तिः । एतेनामूर्तरूपादियोगः ५ प्रत्युक्तः। अमूर्त्तत्वेऽपि तद्वस्तुत्वेनोक्तवद् विकल्पदोषानतिकमात्,
अन्यथा तद्वस्तुत्वाभावः, अतः स्वगतरूपादिपरिणामापेक्षया रूपाचात्मकास्ते इति स्थितम् । एवं च न च निरवयवत्वादमीपामयमदोषः, मूतत्वेन निरवयवत्थायोगात्' इत्यादि यदुक्तं तदप्यबाधकमेव, तत्त्वतस्तथेष्टेः ॥
(खो० व्या०) अनणुत्वं मूलाणोः, तथा व्याप्सितो रूपादिमत्त्वाभावश्च मूलाणोः । कात्ययोगपक्षे तु रूपादिमूलाणूनामितेरतररूपापत्तेः कारणात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा कार्ययोगाभावात् न्यायतः । किमित्याह
रूपादिमत्त्वानुपपत्तिः कारूयेन । एतेनेत्यादि । एतेन रूपाण्वादियोगनिरा१५ करणेन किमित्याह-अमूर्तरूपादियोगः प्रत्युक्तः। कथमित्याह-अमूर्तत्वेऽपि सति तद्वस्तुत्वेन तेषां-रूपादीनां वस्तुत्वेन हेतुना । किमित्याह-उक्तयद् विकल्पदोषानतिक्रमात् । तथाहि-देशयोगपक्षे सदेशत्वादनणुत्वमित्यादि समानमत्र । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा तद्वस्तुत्वाभाव: तेषाम्-अमूर्त्तत्वरूपादीनां वस्तुत्वाभावः । न चैतदेवमिति, अतः खगतरूपादि२० परिणामापेक्षया रूपाद्यात्मकास्ते परमाणव इति स्थितम् । एवं च 'नच निरवयवत्वादमीषामयमदोषः, मूर्तत्वेन निरवयवत्वायोगात् इत्यादि यदुक्तं पूर्वपक्षग्रन्थे तदप्यबाधकमेव । कथमित्याह-तत्वत:परमार्थेन तथैवेष्टेः कारणात् ॥
(विवरणम्) २५ (११) व्याप्तितो रूपादिमस्वाभावश्चति । यदि टेकेन देशेन मूलाणुरूपाणुना
सह सम्बन्धमनुभवति तदा तस्मिन्नेव देशे असौ रूपवान् , न तु परिपूर्ण इति व्यात्या रूपयत्त्वाभावः । एवं रसाधणुभिरपि सह द्रष्टव्यमिति ॥
(१५) अमूर्तरूपादियोग इति । वैशेषिका हि अमूत: रूपादिमिर्गुणैयोगः परमाणोरिति प्रतिजानते ॥
१'गतपरिणामा०' इति ग-पाठः। २-३ तृतीये पृछ ।