________________
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
मूर्त्तत्वाभावात्, अमूर्त्तत्वे चैषां सदैवाग्रहणम्, भूयसामप्यमूर्त्तत्वानतिक्रमात् तथाभूतेभ्योऽतथाभूतोत्पत्तौ युक्त्यभावः, हेत्वन्तराभावात् । न चैकस्तदन्ययोगाद् रूपादिमान् सङ्घातात्म- ५ कत्वेन तदणुत्वविरोधात् । देशकात्र्य विकल्पद्वारेण तत्तद्योगानुपपत्तेः देशयोगपक्षे सदेशत्वादनेणुत्वम्, व्याशित रूपादिमत्त्वा
अधिकारः ]
२३
( स्वो० व्या० )
मूर्त्ताः परमाणव इति कृत्वा । किमित्याह-स्पर्शादिभावः, अन्यथा - एवमनभ्युपगमे मूर्त्तत्वाभावात्, अमूर्त्तत्वे चैषां परमाणूनां सदैवाग्रहणं सञ्चया- १० वस्थायामपि । कुत इत्याह- भूयसामप्यमीषाम् अमूर्त्तत्वानतिक्रमादिति । तथाभूतेभ्यः - अदृश्यस्वभावेभ्योऽतथाभूतोत्पत्तौ दृश्योत्पत्तौ इष्यमाणायां युक्त्यभावः । कथमित्याह - हेत्वन्तराभावात् कारणात् । न च हेतुभेदमन्तरेण कार्यभेदो न्याय्य इति भावनीयम् । न चैकः -अणुः तदन्ययोगात्रूपाण्वादियोगाद रूपादिमान् । कुत इत्याह-सङ्घातात्मकत्वेन हेतुना तद- १५ त्वविरोधात् । दोषान्तरमाह - देश का विकल्पद्वारेण च । किमित्याहतत्तद्योगानुपपत्तेः तस्य - अणोस्तैः - रूपाण्वादिभिर्योगानुपपत्तेः । एतद्भावनायैव आह- देशयोग पक्षे रूपाण्वादीनां मूलाणुना । किमित्याह-सदेशत्वात् कारणात्
( विवरणम् )
(१०-११) सञ्चयावस्थायामपीति । यदि परैकैकोऽणुः स्पर्शादिचतुष्टयस्वभावो नाश्रीयते, तदानीममूर्त्ता एव ते परमार्थतोऽभ्युपगता इति प्राप्तम् । तादृशानां न कदाचिद् ग्रहणम् । नहि केवलः स्पर्शाणुः केनापि कापि च कदाचिदपि दृश्यते । एवं रूपाद्यणुष्वपि योज्यम् । ततो यथा प्रत्येकावस्थायां न ग्रहणमणूनामेवं सनयावस्थायामपि न स्यात्, भूयसामप्येकैकस्वभावत्वेनामूर्त्तत्वानतिक्रमादिति ॥
२०
(१५) रूपादिमानिति । अयमभिप्रायो भविष्यति कदाचित् परस्य यदुतैक एव २५ परमाणुः रूपाण्वादियोगाद् भवति रूपादिमान् । तथाहि--स्पर्शाणुः रूपाणुयोगाद् रूपवान्, रैसाणुसम्बन्धनाद् रसयुक्तः, गन्धपरमाणुसम्पर्काच्च गन्धवान् । एवं च स एव स्पृश्यते दृश्यते रस्यते ब्रायते चेति । एतच्चासम्बद्धमेव, अणुत्वविरोधात् । एवं कोऽपि स्पर्शाद्यणू रूपाण्वादिसङ्घातस्वभावः प्राप्त इति कृत्वा ॥
१ 'नणुरूपत्वम्' इति ग-पाठः । २ 'अवश्यस्व ० ' इति क-पाठः । ३ 'रसाणुबन्धात्' इति
-973: 1