________________
. अनेकान्तजयपताकाख्यं प्रकरणम् [पञ्चमः
(मूलम् ) त्वात् , चित्रत्वे 'चैकत्वायोगादिति, स्वभाववैचित्र्याद् रूपादिवेचित्र्यमेवास्तु । यथाऽऽहुायवृद्धाः५ "कारणमेव तदन्त्यं नित्यः सूक्ष्मस्तु भवति परमाणुः । ..... एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥"
एवं च रूपादीनामेवैकत्वपरिणामोऽयमिति सावयवत्वादिसिद्धिः॥
अन्ये तु प्रत्येकं रूपादिरूपा एव परमाणव इति मन्यन्ते तदप्ययुक्तम्, असम्भवात्, तेषां हि मूर्तत्वेन स्पर्शादिभावः, अन्यथा
(खो० व्या०) हेतुनाऽस्य-अधिकृतस्याणुस्वभावस्य अचिनस्वभावत्वात् चित्रत्वे च अस्य एकत्वायोगात् सर्वथा इति-एवं स्वभाववैचित्र्यादणोः रूपादिवैचित्र्यमेवास्तु । न च स्वभाववैचित्र्यमन्तरेण तद्योगसिद्धिरिति भावनीयम् । अतो रूपादि
वैचित्र्यमेवास्तु यथाऽऽहुयायवृद्धाः-कारणमित्यादि । कारणमेव तदन्त्यं१५ पर्यन्तवर्ति व्यणुकादीनां नित्यः-सदा स्वसत्ताऽपरित्यागेन सूक्ष्मः च भवति पर
माणुर्द्रव्यतः अशक्यभेदः एकरसस्तिक्ताद्यपेक्षया, एकगन्धः सुरभ्यायपेक्षया, एकवर्णः कृष्णायपेक्षया, द्विस्पर्शः शीतमृदुत्वाद्यविरुद्धभावेन कार्यलिङ्गश्चघटादिकार्येण लिङ्गयते । उपसंहरन्नाह-एवं चेत्यादि । एवं च-उक्तनीतेः रूपादी
नामेवैकत्वपरिणामः अयम्-अणुरिति सावयवत्वादिसिद्धिः अस्य ।। २० अन्ये त्वित्यादि । अन्ये तु-सौगतविशेषाः प्रत्येकं रूपादिरूपा एव
परमाणव इति-एवं मन्यन्ते । एतदप्ययुक्तम् । कुत इत्याह-असम्भवात् प्रत्येकं रूपादिरूपपरमाणूनाम् । असम्भवमाह-तेषां यस्मान्मूतत्वेन हेतुना
(विवरणम्) (२०-२१) प्रत्येकं रूपादिरूपा एव परमाणव इति । सौत्रान्तिका हि अन्ये २५ रूपाणवोऽन्ये रसाणवोऽन्ये गन्धाणवो व्यतिरिक्ताश्च स्पर्शपरिमाणव इति प्रतिपन्नाः, न त्वेकैक एवाणूरूपरसगन्धस्पर्शभाव इति ॥
(२२) मूर्तत्वेन हेतुनेति । यद् यन्मूर्त तस्य तस्य स्पर्शादिभिर्भाव्यम् , यथा घटस्य । मूर्त्ताश्च परमाणवो इति तेषामपि स्पर्शादिभिः समुदितैर्भाव्यम् । न च वाच्यं घटेऽपि व्यतिरिक्ता एव स्पादिपरमाणव इति, प्रतीतिबाधितत्वात् । तथाहि-य(त) ३० एव स्पृश्यन्ते दृश्यन्ते रस्यन्ते ब्रायन्ते चेति प्रतीतिरविसंवादिनी समुपलभ्यत इति ।।
१ 'वैकत्वा०' इति ग-पाठः। २ 'वर्तित्वात् व्यणु' इति क-पाठः । ३ 'प्रत्येकं रूपा एव परमाणक इव इत्येवं' इति उ-पाठः। ४ 'रसाणवो भिन्ना गन्धा.' इति च-पाठः। ५ 'स्पर्शस्वभाव' इति च-पाठः।