________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
( मूलम् ) किञ्चास्यानेकगुणसम्बन्धस्वभावत्वे सति तदुपपत्तिः, अन्यथा अयोगात् । न चायमेक एव, उपाधिभेदाद् रूपादीनामनेकत्वात्, रूपसम्बन्धस्वभावस्यैव रसादिसम्बन्धस्वभावत्वे तदतत्त्वप्रसङ्गात्, अन्यथा रूपसम्बन्धस्वभावत्वविरोधात् एकान्तैकत्वेन अस्याचित्र( स्वो० व्या० )
दूषणान्तरमाह किञ्चेत्यादिना । अस्येति प्रक्रमादणोरनेकगुणसम्बन्धखभावत्वे सति रूपाद्यपेक्षया तदुपपत्तिः प्रक्रमाद् रूपाद्यात्मकत्वोपपत्तेः । कुत इत्याह--अन्यथा-अतत्स्वभावत्वे सति अयोगात् । न चायम् - अनेकगुणसम्बन्ध - १० स्वभावः प्रक्रमात् तस्याणोरेक एव । कुत इत्याह- उपाधिभेदात् । एनमेवाहरूपादीनामुपाधीनामनेकत्वात् । रूपसम्बन्धस्वभावस्यैवाणुगतस्य रसादिसम्बन्धस्वभावत्वे सति किमित्याह - तदतत्त्वप्रसङ्गात् तस्य- रसादेरसादित्वप्रसङ्गादित्यर्थः । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथेत्यादि । अन्यथा - एवमनभ्युपगम्यमाने रूपसम्बन्धस्वभावस्व विरोधादणोः रसादिसम्बन्धे सति १५ तत्स्वभावापत्तेरिति हृदयम् । किमित्येतदेवमित्याह -- एकान्तेत्यादि । एकान्तैकत्वेन
२.१
(विवरणम् )
रिति यद्यप्येतन्न तगुण इष्यते तथापि गुण-गुणिनोर्भेदाविशेषादुक्तापत्तिरनिवार्येति भावनीयमिति । असर्वगतद्रव्यपरिमाणं मूर्तिरिति कृत्वा यद्यप्येतत - मूर्तस्वं न गुणः - नैवाकाशगुण इष्यते, तथापि गुण-गुणिनो:- मूर्तत्व- द्रव्याख्ययोर्भेदेस्या - २० विशेषात् कारणादुक्तस्य- आकाशस्यापि मूर्ततापत्तिरिति । एवं लक्षणस्यार्थस्यापत्तिरनिवार्या । स्यादयमत्र परमार्थः - यद्यप्याकाशस्य सम्बन्धी गुणो नेष्यते मूर्त्तत्वं 'असर्वगतद्रव्यपरिमाणं मूर्त्तिः' इति वचनात्, तथापि यथाविवक्षितद्रव्यादेकान्तेन भिन्नमपि मूर्त्तत्वं गुण इष्यते, एवं किमिति नाकाशस्यापि भेदाविशेषादिति ? ॥
५
(१५-१६) रसादिसम्बन्धे सति तत्स्वभावापत्तेरिति । रसादिना सम्बन्धो २५ रसादिसम्बन्धस्तस्मिन् सति तत्स्वभावनापत्तेः- रूपादिमम्बन्धस्वभावतापन्तेः । रूपसम्बन्धस्वभावत्वस्य यदि हि रूपसम्बन्धस्वभावस्यैवाणुगतस्य रसादिसम्बन्धस्वभावस्व[' मिति तर्हि रूपसम्बन्ध स्वभावत्व ] मभ्युपगम्यते तदा रसादेः रूपान्तः प्रविष्टत्वादभाव एव स्यात् । अथ व्यत्ययोऽभ्युपगम्यते यदुत रसादिसम्बन्धस्वभावत्वमेव रूपसम्बन्धस्वभावत्वमिति, तर्हि रूपसम्बन्धस्वभावत्वस्य विरोधः, रूपरसाद्यन्तर्गतत्वेनाभावात् । १०
१ 'तत्स्वभावत्वापत्तेः' इति ङ - पाठः । २ 'भावनीय असर्व०' इति च - पाठः । ३ ' भेदविशेषात् ' ५ ' गुणोऽपेष्यते' इति क- पाठः ।
४ 'पत्तेरिति' इति च-पाठः ७ 'विशेषः' इति ख- पाठः ।
क- प्रतौ
इति क-पाठः । नास्त्ययं पाठः ।