________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
तदरूपाद्यात्मकं यदतदाभया धिया गम्यते ? | द्रव्यधीगम्यमिति वेत्, काऽसावरूपाद्याभा ? कथं वा मूर्त्तं स्वतोऽरूपादि ? | मूर्त्तत्व५ योगादिति चेत्, कथं मूर्त्ता मूर्त्तयोर्योगः ? । तत्खरूपाना पत्तौ वा तत्त्वम्, अतिप्रसङ्गात्, नभसोऽपि मूर्त्ततापत्तेः भिन्नतद्धर्मयोगात् सर्वगतत्वादिति ॥
२०
,
[ पचमः
( खो० व्या० )
तद्द्रव्यमेव इति चेत्-रूपादिसम्बन्धि द्रव्यमेवेति चेदाधारः । एतदाशङ्कयाह१० किं तत् - द्रव्यमरूपाद्यात्मकं यदतदाभया - अरूपाद्याकारया धिया - बुद्ध्या गम्यते ? न किञ्चिदित्यर्थः । द्रव्यधीगम्यमिति चेत्, एतदाशङ्कयाह- काऽसौद्रव्यधीः अरूपाद्याकारा ? न काचिदिति भावः । कथं वा मूर्त्त तत् स्वतः - आत्मना अरूपादि सत् ? । मूर्त्तत्वयोगादिति चेन्मूर्त्तम् । एतदाशवाह कथं मूर्त्तामूर्त्तयोः- द्रव्य-मूर्त्तत्वयोर्योगः - सम्बन्धः १ । तत्खरूपानापत्ती वा१५ मूर्त्तत्वस्वरूपानापत्तौ वा द्रव्यस्यामूर्त्तस्य तत्त्वं- मूर्त्तत्वं कथं च न स्यादित्याह-अतिप्रसङ्गात् । एनमेवाह - नभसोऽपि - आकाशस्यापि मूर्त्ततापत्तेः । आपत्तिश्व भिन्नतद्धर्मयोगाद् भिन्नेन - स्वरूपतस्तद्धर्मेण मूर्त्तत्त्वाख्येन योगात् । योगश्च सर्वगतत्वात् नभस इति । 'असर्वगतद्रव्यपरिमाणं मूर्त्तिः' इति यद्यप्येतन्न तद्गुण इष्यते तथापि गुण-गुणिनोर्भेदाविशेषादुक्तापत्तिरनिवार्येति भावनीयम् ॥
२५
२०
( विवरणम् )
दिषु गुणेषु वर्तते, निर्गुणत्वाद् गुणानाम् ? ततोऽमूर्त्ततयाऽपतनधर्माणां सतां रूपादीनां किमाधारकल्पनया ? यदुक्तम्
"स्यादाधारो जलादीनां गमनप्रतिबन्धकः ।
अगतीनां किमाधारैर्गुणसामान्यकर्मणाम् ? ॥” इति ॥
(१२-१३) कथं वा मूर्त तत् स्वतः - आत्मना अरूपादि सदिति ? । अस्यायमभिप्रायः- यदाधारभूतं द्रव्यं परिकल्प्यते परैः कथं तन्मूर्त भवति, आत्मभूतरूपादिगुणाभावात् । लोके हि रूपादिगुणप्रामस्वभावा एव घटादयो मूर्त्ता दृश्यन्ते, न तु सद्व्यतिरिक्ता आकाशादयः । अथेत्थमाचक्षीथाः - मूर्त्तत्वयोगान्मूर्त्तमिध्यते अस्माभिर्द्रव्यं गोवयोगादिव गौरिति । एतदपि न, मूर्त्तामूर्त्तयोः परस्परं सम्बन्धाभावात् । तथाहि३० रूपाद्याधारद्रव्यं स्वरूपेणामूर्त्त मूर्त्तत्वं तु मूर्त्तम्, अतः कथमनयोर्द्वयोरपि सम्बन्धः ? ॥ अत्र चान्यदपि दूषणं समस्ति । यथा - ( १८ - १९) असर्वगतद्रव्यपरिमाणं मूर्ति१ 'मूर्तत्वापत्तेः' इति ङ-पाठः ।