________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
( मूलम् )
तद्धर्मत्वात्, अतद्धर्मत्वे तत्तदभावप्रसङ्गात् तद्भावे च सत्त्वाययोगात् कथञ्चिदमीषां सावयवत्वादिसिद्धिः, द्रव्यतो निरंशादित्वेऽपि पर्यायतः सांशादित्वात् । न चैतदनार्थम् - "ऍगपएसोगाढं सत्तपएसा ५ य से फुसण त्ति”, मुनीन्द्रवचनश्रवणात् । इतश्चैतदेवं तेषामेव रूपाद्यात्मकत्वात्, अतदात्मकत्वेऽरूपादित्वेनासत्त्वप्रसङ्गात् । किं हि तत् मूर्त्तं सद् यद् रूपादि न भवति । तदाधार इति चेत्, कोऽसावतदात्मकः ? । किं वाऽपतनधर्माणां तेन ? । तद्द्रव्यमेवेति चेत्, किं ( स्वो० व्या० ) तोऽशक्यभेदे दिग्भागभेदात् कारणात् कथञ्चिदमीषां सावयवत्वादिसिद्धिरिति सम्बन्धः । कुत इत्याह-तस्यापि - दिग्भागभेदस्य तद्धर्मत्वात्, प्रक्रमादणुधर्मत्वात् । तद्धर्मत्वे सति तस्मिन् - अणौ तदभावप्रसङ्गात् दिग्भागभेदाभावप्रसङ्गात् तदभावे च-यथोदितदिग्भागभेदाभावे च सत्त्वाद्ययोगात् कारणात् कथञ्चित् - केनचित् पर्यायप्रकारेण अमीषाम् - अणूनां सावयवत्वादिसिद्धिः, १५ सावयवत्वैकत्वादिसिद्धिरित्यर्थः । कुत इत्याह- द्रव्यतो निरंशादित्वेऽपि सति अशक्यभेदतया पर्यायतः सांशादित्वात् कारणात् । न चैतत् -सांशत्वमनार्थम् - अनागमिकम् - "ऐगपदेसोगाढं सत्तपसा य से फुसण त्ति” मुनीन्द्रवचनश्रवणात् । एकप्रदेशावगाढं परमाणुद्रव्यं सप्तप्रदेशा च तस्य स्पर्शना सहावगाढप्रदेशेन षट् दिक्स्थप्रदेशस्पर्शनात् । एवम्भूतमुनीन्द्रवचनश्रवणादिति । २० इतश्चैतदेवमित्यभ्युच्चयमाह - तेषामेव परमाणूनां रूपाद्यात्मकत्वात्, अतदात्मकत्वे - अरूपाद्यात्मकत्वे अरूपादित्वेन हेतुना असत्त्वप्रसङ्गात् तेषाम् । एतद्भावनायाह- किं हि तत् मूर्त्तं सद् यद् रूपादि न भवति । तदाधार इति चेत्, रूपाद्याधारस्तदिति । एतदाशङ्कयाह - कोऽसौ - आधारः अतदात्मकःअरूपाद्यात्मकः ? किं वाऽपतनधर्माणाम् - अमूर्त्ततया रूपादीनां तेन - आधारेण १२५ ( विवरणम् )
,
अधिकारः ]
१९
(२५) किं वाऽपतनधर्माणाममूर्त्ततया रूपादिनां तेनाधारेणेति । अत्रैवं वैशेषिकमतमवबुध्यते--ये मी रूपादयो गुणास्ते सर्वेऽप्यमूर्त्ता एव, यतः 'असर्वगतद्रव्यपरिमाणं मूर्त्तिः' इति वचनान्मूर्त्तिः परिमाणलक्षणो गुण एव, अतः कथं रूपा
१ 'निरंशत्वेऽपि' इति क-पाठः । २ छाया - एकप्रदेशावगाढं सप्तप्रदेशा च तस्य स्पर्शनेति । ३ 'किचापतन' इति क- पाठः । ४ 'निरंशत्वादित्वे' इति ङ-पाठः । ५ छायार्थं द्रष्टव्यं द्वितीयं टिप्पणकम् ।
१०