________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
तत्तदिग्भागभेदसिद्धिः । का पुनरत्र भावनेति चेत्, पूर्वादिप्रदेशेषु तदभावः, नैतदप्रदेशेषु भाव्यत इति चेत् , तद्भावे समाधीयतां चेतः, ५ नैवं सति स निरवयव एव । भवतु नामैवं ततः किम् ? कथं नु तत् परमाणुत्वम् ? । ननु तदल्पतराभावेन, कथं ततो नास्त्यपरः? सर्वाल्पस्य विवक्षितत्वात् , कथं तथादिग्भागभेदेन तत्? द्रव्यतोऽशक्यभेदतया सत्त्वावस्थानाभ्यां च तत्रापि दिग्भागभेदात्, तस्यापि
(स्वो० व्या०) १. एव । यदि नामैवं-सर्वत्र विच्छेदः, ततः किम् ? । इति चेत्, एतदाशङ्कयाहहन्त दिग्भागभेदसिद्धिः। का पुनरत्र--दिग्भागभेदसिद्धौ भावना? । इति चेत्, एतदाशक्याह-पूर्वादिप्रदेशेषु वास्तवेषु तदभावः, प्रक्रमादण्वभावः । नैतदित्यनन्तरोक्तं अप्रदेशेषु अणुषु भाव्यते । इति चेत्, एतदाशङ्याहतद्भाव-भावनाभावे-समाधीयतां चेतः, नैवं सति स:-अणुर्निरवयव १५ एव । एतदाशङ्कयाह-भवतु नामेवं न निरवयव एव । ततः किम् ? । अत्राहकथं नु तत् परमाणुत्वं अनिरवयवत्वेन ? । एतदाशयाह-ननु तदल्पतराभावेन तत् परमाणुत्वम् । आह-कथं ततः-अधिकृतादणोनास्त्यपरः ? एतदाशक्याह-सवोल्पस्य विवक्षितत्वान्नास्त्यपर इति । आह-कर्थ तथादिग्भाग
भेदेन-पूर्वादिभेदेन तत्-सर्वाल्पत्वम् ? । एतदाशक्याह-द्रव्यतोऽशक्यभेद२० तया कारणेन तत् सर्वाल्पत्वं सत्त्वावस्थानाभ्यां च कारणाभ्यां तत्रापि-द्रव्य
(विवरणम्) (१२) प्रक्रमादण्वभाव इति । अयमत्राभिप्राय:-मध्यप्रदेशे वर्तते परिपूर्णः परमाणुः; तद्वहिर्वतिषु प्राच्यादिप्रदेशेषु पुनर्न वर्तते परिपूर्णः । किं तर्हि ? स्पर्शमात्रेणैव । ततो दिग्भागभेदसिद्धिरिति । कोऽर्थः ? यत्राकाशप्रदेशे स्वयमवगाढस्तं २५ परिपूर्णमाक्रामति पूर्वादिप्रदेशांस्तत्र परिपूर्णान् स्पृशतीति व्यक्तैव सावयवताऽणोः ॥ ... (१९-२०) द्रव्यतोऽशक्यभेदतया कारणेन तत् सर्वाल्पत्वमिति । परमाणुद्रव्यं यतो द्विधा कर्तुं न पार्यते, ततः सल्पिमुच्यत इत्यर्थः ।।
(२०) सत्त्वावस्थानाभ्यां च कारणाभ्यामिति । दिग्भागभेदे साध्ये एतद्धेतुद्वयमुपन्यस्तं सत्त्वमवस्थानं च । ततोऽयमर्थः यत् सत्-विद्यमानमवस्थितं च तत् ३० कापि तत्र दिग्भागभेदेन भवितव्यं, यथा घटादेः । सन्तोऽवस्थिताश्च परमाणवस्तस्मादमीषामप्यस्ति दिग्भागभेदः । तत्सद्भावे च सावयवत्वसिद्धिरनिवारणीयेति ।।
१ 'तदिग्भाग-' इति क-पाठः । २ 'नैतत् पूर्वादिप्रदेशेषु तदभाव(१)त्यन्यतरोक्तं अत्र प्रदेशेष्वणुषु भावः इति' इति ङ-पाठः। ३ 'कथं तत्' इति ङ-पाठः। ४ 'दिग्भाग्भावभेदः' इति कपाठः, च-पाठस्तु 'दिग्भावभेदः' इति ।