________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) गतत्वात् , अन्यथा मूर्तत्वायोगादभ्युपगमानां चादोषत्वादिति । न युक्तिवाधिता अप्यभ्युपगमा इष्टसिद्ध्यर्थम् , अतिप्रसङ्गात्, सर्वसिझ्यापत्तेः, तन्मात्रनिवन्धनत्वात् , असमञ्जसत्वापत्तेरिति। नैनदे- ५ वम्, अधिकृताभ्युपगमस्य युक्तिबाधितत्वासिद्धेः । तथाहि-परमाणयो मूर्ताः, अत एव द्रव्यसन्तस्तथासतां च नियमात् कचिदवस्थानम्, अवस्थाने चावश्यं दिग्भागभेदः, द्रव्यसतःसर्वत्र विच्छेदात्, अन्यथाऽवस्थानाभावात् । स्वात्मन्येवावस्थानमिति चेत्, न तत्रापि न सर्वत्र विच्छेदः । यदि नामैवं ततः किमिति चेत्, हन्त १०
(स्त्रो० व्या०) सावयवत्वाद्यभावे मूर्त्तत्वायोगादभ्युपगमानां चादोषत्वात् । न ह्यभ्युपगमा एव बाधायै भवन्ति इति आह-न युक्तिवाधिता अप्यभ्युपगमाः। किमित्याह-इष्टसिद्ध्यर्थं भवन्ति । कुत इत्याह-अतिप्रसङ्गात्-अतिप्रसङ्गेन सर्वसिद्ध्यापत्तेः। आपत्तिश्च तन्मात्रनिबन्धनत्वात् , इष्टसिद्धरित्यर्थः । एव- १५ मसमञ्जसत्वापत्तेः 'न युक्तिबाधिता अपि' इत्यादि योजनीयमिति । एतदाशङ्याह-नैतदेवं यदुक्तं परेण । कुत इत्याह-अधिकृताभ्युपगमस्य-प्रस्तुतपरमाणुगोचरस युक्तिवाधितत्वासिद्धेः । असिद्धिमेवाह तथाहीत्यादिना । तथाहि-परमाणवो मूर्ताः-रूपादिमन्तः; अत एव-मूर्त्तत्वादेव द्रव्यसन्तःपरमार्थसन्तो वर्तन्ते । तथासतां च द्रव्यसत्त्वेन नियमात् कचिदवस्थानम् २० अवस्थाने चावश्यं दिग्भागभेदः। किमत्र युक्तिवाधितत्वम् ? । कुत इत्याहद्रव्यसतः सर्वत्र विच्छेदात् कारणात् । इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा अवस्थानाभावात् सतोऽसर्वगतस्य सर्वत्र विच्छेदमन्तरेण कथमवस्थानमिति परिभावनीयम् । वात्मन्येवावस्थानमिति चेत्, एकान्तनिरंशपरमाणुवादिमतमेतत् । एतदाशझ्याह-न तत्रापि-खात्मन्यवस्थाने न सर्वत्र विच्छेदः, किन्तु विच्छेद २५
(विवरणम्) (२२) द्रव्यसतः सर्वत्र विच्छेदात् कारणादिति । परमार्थसतोऽसर्वगतस्य पदार्थस्य सर्वासु दिक्षु विच्छेदेन पर्यन्तलक्षणेन भाव्यमिति ॥
(२३) सतोऽसर्वगतस्येति । सत:-परमार्थतो विद्यमानस्यासर्वगतस्य-प्रतिनियतदेशव्यापिनः, न त्वाकाशवत् सर्वगतस्य ।
१'प्रसङ्गे च सर्व' इति उ-पाठः ।
अनेकान्त०३