________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः (मूलम्) अतो विविक्तास्ते गृह्यन्ते तथास्वभावत्वात् प्रत्येकसर्षपवत् । स्थूलाकारस्य छद्मस्थेनापि ग्रहणानुगुण्यतस्तु एवमुपन्यास इति । एवं च ५ 'अग्राह्या इत्यपि किं प्रमाणमिति चेत्, इत्येतदाशङ्कय यदुक्तम्-'ननु तयुक्त्ययोगः' इत्येतदपि तुच्छमेव द्रष्टव्यम् , तद्युक्त्ययोगासिद्धेः। आहे-'परमाणवो हि मूर्ती इष्यन्ते। मूर्त्तत्वे च सत्यवश्यं दिगभागभेदेन भाव्यम् । सति चास्मिन् सावयवत्वमहत्त्वैकत्वानेकत्वविचाराक्षमत्वात् कुतस्ते इत्यादिना तात्ययोग उक्तः। सत्यमुक्ता, "अयुक्तस्तूतः, मूर्तत्वादेवाणूनामुक्तदोषाभावात्, तत्त्वतोऽभ्युप
(खो० व्या) "खंधा खंधदेसा खंधप्पदेसा परमाणुपोग्गला" इति । अत्र स्कन्धा विशिष्टैकपरिणामपरिणताः । स्कन्धदेशास्तु व्यादिविभागाः। स्कन्धप्रदेशास्तत्स्था एव परमाणवः । परमाणुपुद्गलाः प्रत्येकपरमाणुपरिणता इति । अतो ये विविक्ताः ५ परमाणुपुद्गलास्ते गृह्यन्ते, अधिकृतक्वचिद्रहणे । कुत इत्याह-तथास्वभावत्वात्
तेषां-परमाणुपुद्गलानां प्रत्येकसषेपवत् यष्टिबाह्या इति निदर्शनम् । स्थूलाकारस्य * स्कन्धपरिणामरूपस्य छद्मस्थेनापि-प्रमात्रा ग्रहणानुगुण्यतः पुनः कारणात् ।
एवमुपन्यासः स्कन्धाः स्कन्धा देशा इत्यादिरूपसूत्र इति । एवं चाग्राह्या इत्यपि किं प्रमाणम् ? । इति चेत्, एतदाशङ्कय यदुक्तं पूर्वपक्षग्रन्थे२० 'ननु तद्युत्तययोगः' इत्येतदपि तुच्छमेव-असारमेव द्रष्टव्यम् । कुत इत्याह-तयुत्त्ययोगासिद्धेः, तेषां-परमाणूनां युक्त्ययोगासिद्धेरिति । आहपरमाणवो यस्मान्मूर्ती इध्यन्ते । मूर्त्तत्वे च सति तेषां किमित्याहअवश्यं दिग्भागभेदेन भवितव्यम् । ततः किमित्याह-सति चास्मिन्दिग्भागभेदे सावयवत्वमहत्त्वैकत्वानेकत्वविचाराक्षमत्वात् कारणात् २५ कुतस्ते-परमाणव इत्यादिना ग्रेन्थेन तद्युत्त्ययोगः-परमाणुयुक्त्ययोग उक्तः। एतदाशझ्याह-सत्यमुक्ता-नानान्यथात्वम् ; अयुक्तस्तूक्तः, अघटमान इत्यर्थः । कुत इत्याह-मूर्त्तत्वादेव कारणादणूनामुक्तदोषाभावात् । अभावश्च तत्त्वतोऽभ्युपगतत्वात् सावयवत्वादीनाम् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा . १ 'प्रहणानुगण्यतेस्तु' इति क-पाठः। २ द्वितीये पृष्ठे । ३ द्वितीये पृष्ठे तृतीये च । ४ 'इत्यादिना यावयुक्त्यः' इति क-पाठः । ५ 'खंधपदेसा' इति ङ-पाठः। ६ छाया-स्कन्धाः स्कन्धदेशाः स्कन्ध्रप्रदेशाः परमाणुपुद्गलाः । ७ 'परिमाणु०' इति क-पाठः। ८ 'बाह्यसर्षपवत्' इति भाति ।
रूपस्वत्र' इति उ-पाठः। १० द्वितीये पृष्ठे । ११ 'युक्त्यायोगशा.' इति क-पाठः । १२ द्रष्टव्ये द्वितीयं तृतीयं च पृष्ठे। १३ नान्यथा०' इति क-पाठः ।