________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
_(मूलम्) स्थिताविति निरावरणेन तथैव गृह्यते । आसन्नामललोचनेनेव यथोदितसर्षपयष्टौ सर्षपा रत्नादौ वा तद्गुणा इति । न ह्यसौ सर्षपान न पश्यति तथाप्रतीते, न च तद्यष्टिमपि, अत एव हेतोः। न चान्यतर- ५ दपि अत्र न, तदितराभावापत्तेः । न च परिकल्पितमपि, अत एव हेतोरिति । एवं रत्नादिगुणेष्वपि तज्ज्ञमाश्रित्य योजनीयम् ॥
स्थादेतदेवं योगिभिर्न ते विविक्ता एव गृह्यन्ते। न, कचिद् ग्रहणात्, विविक्तानामपि भावात्,पुद्गलास्तिकायवैचित्र्यात् ,वचनप्रामाण्यात्। तथा चार्षम्-"खंधा खंधदेसा खंधपएसा परमाणुपोग्गला" इति । १०
(खो० व्या०) स्थिताविति कृत्वा निरावरणेन-योगिना तथैव गृह्यते यथा व्यवस्थितौ । निदर्शनमाह-आसन्नामललोचनेनेव-प्रमात्रा यथोदितसर्षपयष्टौ अनन्तरोपन्यस्तायां सर्षपाः साधारणासाधारणरूपा एव । न ह्यसौ सर्षपमानं यष्टिशून्यं यष्टिं वा सर्षपशून्यां गृह्णाति । निदर्शनान्तरमाह-रत्नादौ वा तद्गुणाः रत्नगुणा इति । १५ एतदपि भावयन्नाह-न ह्यसौ-आसन्नामललोचनः-सर्षपान न पश्यति तथाप्रतीतेः-सर्षपत्वेन प्रतीतेः । न च तद्यष्टिमापि-सर्षपयष्टिमपि न पश्यति; अत एव हेतोः-तथाप्रतीतेरेव । न चान्यतरदपि-सर्षपादि अत्र-यष्टौ न; तर्हि ? उभयमस्ति । कुत इत्याह-तदितराभावापत्तेः, अनुभूयमाननिषेधेनेति भावः । न च परिकल्पितमपि अन्यतरत् सर्षपादि । कुत इत्याह-अत एव हेतोः-२० तदितराभावापत्तिलक्षणादिति । एवं रत्नादिगुणेष्वपि-शिरःशूलशमनादिप्रभावादिषु तज्ज्ञमाश्रित्य रत्नपरीक्षाकुशलं योजनीयम् । न ह्यसौ रत्नं न पश्यति तथाप्रतीतेः । न च न तद्गुणानप्यत एव हेतोरित्यादि ॥ __ स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे एवं-सर्षपयष्टिदृष्टान्तेन योगिभिरपि-निरावरणैर्न ते, प्रक्रमात् सर्षपकल्पाः परमाणवो विविक्ता एव गृह्यन्ते । २५ एतदाशङ्कयाह-न कचिद् ग्रहणाद् विविक्तानाम्। कथमित्याह-विविक्तानामपि भावात्, प्रक्रमात् परमाणूनाम् । कथं भाव इत्याह-पुद्गलास्तिकायवैचिच्यात् कारणात् । वैचित्र्यं च वचनप्रामाण्याखेतोः। वचनमाह तथा चार्षमित्यादिना
१ छाया स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाः । २ 'तता प्रतीतेः' इति कपाठः। ३ 'उभयमपि कुतः' इति क-पाठः।