________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलस्)
5
श्लेष्ममिश्रीकृतसर्षपयष्टौ दूरासन्नध्यामलामललोचनानां न न प्रतिभासभेदः । न चासौ न तन्निमित्तः । न च न निमित्तान्तरा५ पेक्षः । न न सम्यग्रूप इति परिभावनीयम् । अतः प्रतिबन्धकापगमानुरूपा तत्प्रतिपत्तिरनवद्या च । योगिनोऽपि तत्साधारणाकारं गृह्णन्त्येवेति चेत्, को वा किमाह । तद्ब्रहणेनैव विरुद्धस्तदितरग्रह इति चेत्, न तेनैवासौ कथञ्चित् । तद्भेदे कथं भिन्नेनैव स इति चेत्, न भिन्नेनैव । कथं तर्हि एतत स्पष्टमभिधीयतामिति चेत् कथञ्चिद१० भिन्नेनेति । एतदुक्तं भवति तौ साधारणेतराकारौ भेदाभेदेन व्यव( खो० व्या० ) तथाहीत्युपप्रदर्शने । श्लेष्ममिश्रीकृत सर्षपयष्टौ विषयभूतायां किमित्याहह-दूरासन्नध्याम लामललोचनानां प्रमातॄणां न न प्रतिभासभेदः । " द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः” इति कृत्वा, किन्तु प्रतिभासभेद एव । न चेत्यादि । न च १५ असौ - प्रतिभासभेदो न तन्निमित्तः -नाधिकृतसर्षपादिनिमित्तः, किन्तु तन्निमित एव । न चेत्यादि । न च न निमित्तान्तरापेक्षः, अध्यामलत्वादिनिबन्धनमलादि। भावात् 'निमित्तान्तरसापेक्ष एव । न नेत्यादि । न न सम्यग्रूप : प्रतिभासभेदः, किन्तु सम्यग्रूप एव इति परिभावनीयम् । निगमयन्नाह - अत इत्यादि । अतः प्रतिबन्धकापगमानुरूपा चित्रत्वात् तज्ज्ञानावरणीयादेः तत्प्रतिपत्तिः, २० प्रक्रमात् परमाणुप्रतिपत्तिः, अनवद्या च आलम्बनभावेनावग्दृशोऽपीति । सर्षप - यष्टौ सर्षपाः परमाणुकल्पाः सुखप्रतिपत्त्यर्थमुपन्यस्ताः साधारणासाधारणधर्मभाक्तत्वेन । योगिनोऽपि - निरावरणाः तत्साधारणाकारं - परमाणुसाधारणाकारं गृह्णन्त्येव । इति चेत्, एतदाशङ्कयाह -को वा किमाह ? गृहन्त्येवेत्यर्थः । तद्वहणेनैवसाधारणाकारग्रहणेनैव विरुद्धस्तदितरग्रहः-असाधारण कारग्रहः । इति चेत्, २५ एतदाशङ्कयाह - न, तेनैव - साधारणाकारग्रहणेनैव असौ - असाधारणाकारग्रहः कथञ्चित् - केनचित् प्रकारेण । तद्भेदे साधारणासाधारणाकारभेदे कथं भिन्नेनैव, ग्रहणेनेति प्रक्रमः, सः - इतरग्रहः । । इति चेत्, एतदाशाह ने भिन्नेनैव - एकान्ततः । कथं तर्हि स इतरग्रह एतत् स्पष्टमभिधीयताम् । इति चेत्, एतदाशङ्कयाहकथञ्चिदभिन्नेन तग्रहणेनेति । इहैव भावनिकामाह एतदुक्तं भवतीत्यादिना । ३. तौ साधारणेतराकारौ - परमाणुगतौ भेदाभेदेन - अन्योन्यसंवलितौ व्यव
१४
[ पश्चमः
१ 'निमित्तान्तरापेक्ष एव' इति ङ-पाठः । २ 'अभिन्नेनैव' इति इ-पाठः । ३ 'अन्योन्यमिश्रितौ व्यव०' इति ङ-पाठः ।