________________
अधिकारः]
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
भेदासिद्धेः, बुद्धबोधभेदेषु तथाऽभ्युपगमादिति तद्भावोऽपि न तत्वतस्तदतिरिक्तवस्तुव्यतिरेकेणेति वक्ष्यामः॥
यञ्चोक्तम्-'न च योगिग्राद्या इति न्याय्यं वचः, प्रमाणा- ५ भावात्' इत्यादि तदप्ययुक्तम् , तेषां साधारणासाधारणरूपत्वात् कार्येन निरावरणज्ञानरेव ग्रहणात् । स्यादेतन्न तेषामकायेन सत्तेति । सत्यमेवमेतत् । यद्येवं कथमर्वागदृशा न तथैव ग्रहः ? प्रतिवन्धकदोषात् । कथमेतदवगम्यत इति वाच्यम् ,ज्ञानविशेषदर्शनात् । कीदृशः पुनर्ज्ञानविशेषः ? तद्गतधर्मगोचरः । तथाहि-१०
(खो० व्या०) बोधमात्रभेदभावेऽपि । किमित्याह तथाकार्यभेदासिद्धेः-विजातीयत्वेन कार्यभेदासिद्धेः । असिद्धिश्च बुद्धबोधभेदेषु-अनेकवुद्धसम्बन्धिषु तथाऽभ्युपगमात्विजातीयत्वेन कार्यभेदासिद्ध्यभ्युपगमात् , न हि ततोऽशुद्धलक्षणजन्मेत्यभ्युपगमः। एवं सदुक्तिमात्रमेव इति स्थितम् । इहैवाभ्युच्चयमाह-तद्भावोऽपि-बुद्धबोधभेदभावोऽपि १५ न तत्त्वतः-परमार्थेन तदतिरिक्तवस्तुव्यतिरेकेण-बोधातिरिक्तवस्तुव्यतिरेकेण देशाद्यभावेनेति वक्ष्याम उपरिष्टात् ॥
यचोक्तं पूर्वपक्षग्रन्थ एव-'न च योगिग्राह्या इति न्याय्यं वचः, प्रमाणाभावात्' इत्यादि तदप्ययुक्तम् । कुत इत्याह-तेषां, प्रक्रमात् परमाणूनां, साधारणासाधारणरूपत्वात् । ततः किमित्याह-कायेन-सम्पूर्णतया २० निरावरणज्ञानैरेव योगिभिर्ग्रहणात्। स्यादेतन्न तेषां-परमाणूनामकायेन सत्तेति । एतदाशङ्याह-सत्यमेवमेतत्, नैव तेषामकात्स्येन सत्तेति । पराभिप्रायमाह यद्येवमित्यादिना । यद्येवं-न तेषामकारून सत्ता, ततः कथमाग्दशाछद्मस्थेन प्रमात्रा न तथैव, यथा तत्सत्ता कार्येनेत्यर्थः, ग्रहः-परिच्छेदः । एतदाशङ्कयाह-प्रतिवन्धकदोषात्-कर्मापरीधेन न तथाग्रहः । कथमित्यादि । २५ कथमेतदवगम्यते यदुत प्रतिवन्धकदोषान्न तथाग्रह इति वाच्यम् । एतदाशङ्कयाह-ज्ञानविशेषदर्शनात्, प्रक्रमादणुष्वेव ज्ञानभेददर्शनादेतदवगम्यते यदुत प्रतिबन्धकदोषान्न तथाग्रह इति । कीदृशः पुनर्ज्ञानविशेष इति पृष्टः सन्नाहतद्गतधर्मगोचरः, प्रक्रमादणुगतधर्मविषयः । एवद्भावनायैवाह-तथाहीत्यादि । -- १ द्वितीये पृष्ठे । २ 'दृशां न' इति ग-पाठः। ३ 'भावोऽपि भवत्वतः परः' इति क-पाठः, अ-पाठस्तु 'भावोऽपि तत्त्वतः परमार्थेन न तद०' इति । ४ द्वितीये पृष्ठे । ५ 'राधेन तथामहः' इति ङ-पाठः । ६ 'कथमेवं गम्यते' इति ङ-पाठः। 'नादेतदेव गम्यते' इति ङ-पाठः।