________________
अनेकान्तजयपताकाख्यं प्रकरणम् .... [पत्रमा
(मूलम्) संवेदनात् तस्य च तेष्वभावादित्याद्यपि यदुक्तं तत् प्रत्युक्तम्, तत्साधारणरूपस्यैव तत्त्वतः स्थूलाकाररूपत्वात् तस्य तेष्वभावा५ सिद्धेरिति । एवं च 'नाप्यनुमानस्य विषयः, अव्यभिचारिलिङ्गाभावात्' इत्याद्यपि यदुक्तं तदुक्तिमात्रमेव, तेषां कथञ्चित् प्रत्यक्षसिद्धस्वात् प्रत्यक्षस्य चानुमेयत्वोपपत्तेः, तथाविधविज्ञानस्य तत्तथाभावमन्तरेण सम्यग्न्यायतोऽयोगात्, अन्तर्वासनात एव भावासिद्धेः, बोधमात्रतत्त्ववादिनस्तस्या एवायोगात्, तन्मात्रस्य सर्वबोधेषु १० भावात् तत्त्वेन भेदानुपपत्तेः, भिन्नजातीयकार्यायोगाद् वस्तुतो भेदकाभावात् , तद्भेदमात्रस्याप्रयोजकत्वात् तद्भावेऽपि तथाकार्य
__ (खो० व्या०) तस्य च तेष्वभावादित्याद्यपि यदुक्तं पूर्वपक्षे तत्प्रत्युक्तम् । कथमित्याह
तत्साधारणरूपस्यैव-परमाणुसाधारणरूपस्यैव तत्त्वतः स्थूलाकाररूप१५ त्वात् तस्य-स्थूलाकारस्य तेषु-परमाणुषु अभावासिद्धेरिति । एवं च 'नाप्यनुमानस्य विषयः, अव्यभिचारिलिङ्गाभावात्' इत्याद्यपि यदुक्तं पूर्वपक्षे तदुक्तिमात्रमेव, निरर्थकमित्यर्थः । तेषां-परमाणूनां कथचित्-केनचित् प्रकारेण साधारणरूपतया प्रत्यक्षसिद्धत्वात् प्रत्यक्षस्य च, वस्तुनः अनुमेयत्वोपपत्तेः। एतदेवाह-तथाविधविज्ञानस्य-तत्साधारण२० रूपप्रतिभासिनो विकल्पात्मकस्य तत्तथाभावमन्तरेण तेषां-परमाणूनां तथाभावंसाधारणरूपतया भावमन्तरेण-विना । किमित्याह-सम्यग्न्यायतः-अतिगम्भीरनिरूपणान्यायेन अयोगात् कारणात् । अयोगश्च अन्तर्वासनात एव भावासिद्धेः तथाविधविज्ञानस्य । असिद्धिश्च बोधमात्रतत्त्ववादिनः वादिनः
तस्या एव-अन्तर्वासनाया एव अयोगात् । अयोगश्च तन्मात्रस्य-बोधमात्रस्य २५ सर्वबोधेषु-भुवनान्तर्गतेषु भावात्-कारणात् । ततः किमित्याह-तत्त्वेनपरमार्थेन भेदानुपपत्तेः सर्वबोधानाम् । ततः किमित्याह-भिन्नजातीयकार्यायोगात् । अयोगश्च वस्तुत:-परमार्थेन भेदकाभावात्, तभेदमात्रस्यबोधभेदमात्रस्य । किमित्याह-अप्रयोजकत्वात् । अप्रयोजकत्वं च तद्भावेऽपि
. १ द्रष्टव्यं प्रथम पृष्ठं यत्र भावतोऽयमुल्लेखः, न तु शब्दशः । २ द्वितीये पृष्ठे । ३ 'प्रत्यक्षत्वसिद्ध' इति क-पाठः। ४ 'ज्ञानस्य तथाभाव.' इति ग-पाठः। ५ 'भावादित्यपि' इति ड-पाठः । ६ आये पृष्ठे। ७ द्वितीये पृष्ठे ।