________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) एतदप्ययुक्तम्, अनालोचिताभिधानात् । तत्र यदुक्तम्-'परमाणवस्तावदध्यक्षेण न प्रतीयन्ते' इत्यादि, एतदप्ययुक्तम्, विकल्पानुपपत्तेः । तथाहि-किं सर्वथा न प्रतीयन्ते, आहोखित् ५ कथञ्चित्? । यदि सर्वथा, तदसिद्धम् , कथञ्चित् प्रतीतेः, तेषां साधारणासाधारणरूपत्वात् चित्रस्वभावत्वात् प्रत्येकत्वैकत्वपरिणामभावात्, साधारणरूपप्रतीतेः तथाऽनुभवभावात्, विच्छिन्नार्थग्रहणस्वभावसंवेदनावेदनात्, तस्मिन्नसत्यस्यासिद्धेः दुष्टकेशादिज्ञानस्य तदाभासत्वात् , तस्यापि तहलेनैव प्रवृत्तेः भिन्नदोषोप-१० 'योगापेक्षणात्, अन्यथा तदनुत्प(? पप)त्तेरिति । अनेन स्थूलाकार
(खो० व्या०) एतदाशझ्याह-एतदपि-पूर्वपक्षोदितमयुक्तम् । कुत इत्याह-अनालोचिताभिधानात् । एतदेव दर्शयति तत्रेत्यादिना । तत्र यदुक्तं पूर्वपक्षे'परमाणवस्तावदध्यक्षेण न प्रतीयन्ते' इत्यादि, एतदप्ययुक्तम् । कुत १५ इत्याह-विकल्पानुपपत्तेः। एनामेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । किं सर्वथा न प्रतीयन्ते, आहोखित् कथञ्चित् न प्रतीयन्ते ? । यदि सर्वथा, तत्-एतदसिद्धम् । कुत इत्याह-कथञ्चित् प्रतीतेः-साधारणरूपतया । अत एवाह-तेषां-परमाणूनां साधारणासाधारणरूपत्वात् । एतच्चैवमित्याहचित्रखभावत्वात् प्रत्येकत्वैकत्वपरिणामभावात् । एकत्वं स्कन्धपरिणामः। २० एवं साधारणरूपमतीतेः । तेषां प्रतीतिश्च तथाऽनुभवभावात्-बहिर्मुखावभासतया । एनमेवाह-विच्छिन्नार्थग्रहणखभावसंवेदनावेदनात् तस्मिन्नसति-विच्छिन्नेऽर्थे अस्यासिद्धेः-विच्छिन्नार्थग्रहणस्वभावसंवेदनवेदनस्य कथं तर्हि दुष्टकेशादिज्ञानमित्थमित्याशयाह-दुष्टकेशादिज्ञानस्य । आदि'शब्दात् चन्द्रादिज्ञानग्रहः। तदाभासत्वात्-विच्छिन्नार्थग्रहणस्वभावसंवेदनवेदनाभासत्वात् । तथा २५ तस्यापि-दुष्टकेशादिज्ञानस्य तद्वलेनैव-विच्छिन्नार्थबलेनैव प्रवृत्तेः । प्रवृत्ति- . थैवं भिन्नदोषोपयोगापेक्षणात्, बोधातिरिक्ततिमिराद्युपयोगापेक्षणादित्यर्थः । अन्यथा एवमनभ्युपगमे तदनुपपत्तेः-दुष्टकेशादिज्ञानानुपपत्तेः, न कारणाभेदे कार्यभेद इति भावनीयमिति । एतेन-अनन्तरोदितेन स्थूलाकारसंवेदनात्
१ प्रथमे पृष्ठे। २ प्रत्येकं त्वेकत्व.' इति ग-पाठः । ३ 'भाववेदनवेदनात्' इति ग-पाठः । ४ 'प्रतीतेः' इति क-पाठः । ५ 'योगात् क्षेपणात्' इति क-पाठः। ६ प्रथमे पृष्ठे । ७ 'एतदयुक्तम्' इति ङ-पाठः1 ८ 'ज्ञानमित्याः' इति क-पाठः । ९ कारणामेदात् कार्यः' इति -पाठः।