________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
साकारमनाकारं वा । साकारत्वेऽपि स्वाकारं विषयाकारं वेति । यदि स्वाकारं तमेव तद् 'वेदयेत् कथमनेनार्थी गृहीतो नाम ? | अथ ५ अर्थाकारं जडरूपताsस्य; अन्यथा तदाकारत्वाभावः । अनाकारत्वे तु प्रतिकर्मव्यवस्थानुपपत्तिः, निबन्धनाभावात्, तत्सत्तामात्रस्य सर्वत्राविशेषात्, प्रत्यासत्तेरनिबन्धनत्वात् तस्य सुप्तादिकल्पत्वात् इत्यन्नेव बाह्य इति ॥
१०
[ पश्चमः
( स्वो० व्या० )
१० पायः समस्ति - विद्यते । न च कुत इत्याह- युक्त्ययोगात् कारणात् । एनमेवाभिधातुमाह - स हीत्यादि । स यस्मादर्थः संवेदन ग्राह्यः स्यात्-विज्ञानग्राह्यो भवेत् । तच्च - संवेदनं साकारमनाकारं वा स्यादिति वर्तते । साकारत्वेऽपि सतिस्वाकारं विषयाकारं वेति । सर्वथाऽपि दोष इत्येतदाह - यदि खाकारं संवेदनं ततः तमेव खाकारं तत्-संवेदनं वेदयेत्; कथमनेन-खाकारवेदिना १५ संवेदनेन अर्थो गृहीतो नाम ? नैवेत्यभिप्रायः । अथार्थाकारं, संवेदनमिति प्रक्रमः, जडरूपताऽस्य - संवेदनस्य; अन्यथा - एवमनभ्युपगमे तदाकारत्वा'भावः-अर्थाकारत्वाभावः । अस्य संवेदनस्य स्वरूपनियतत्वादिति भावः । अनाकारत्वे तु, संवेदनस्येति प्रक्रमः किमित्याह - प्रतिकर्मव्यवस्थानुपपत्तिः, सर्ववस्तूनां तदनाकारत्वाविशेषादित्यर्थः । अत एवाह - निबन्धनाभावात् । २० अभावश्च_ तत्सत्तामात्र स्य - अनाकारसंवेदनसत्तामात्रस्य सर्वत्राविशेषात्, प्रत्यासत्तेः - देशकृताया अर्थं प्रति अनिबन्धनत्वात् । अनिबन्धनत्वं च तस्य -- अनाकारसंवेदनस्य सुप्तादिकल्पत्वात् । 'आदि' शब्दान्मत्तादिग्रहः । सुप्तस्य हि प्रत्यासन्नतरयोर्न कश्चिद् विशेषस्तदवबोधं प्रति इति भावनीयम् । इति - एवमन्नेव बाह्येोऽर्थं इति योगाचारमतम् । एतदिह पूर्वपक्ष: ॥
२५
( विवरणम् )
(१८) प्रतिकर्मव्यवस्थानुपपत्तिः कुत इत्याह- (१९) सर्ववस्तूनां तदनाकारत्वाविशेषादिति । अविद्यमान आकारो यत्र तद्नाकारं तस्य भावोऽनाकरत्वं तस्य - ज्ञानस्यानाकरत्वं तदनाकारत्वं तस्याविशेषात् । केषां सम्बन्धी अविद्यमान आकारस्तत्रेत्याह- सर्व वस्तूनां - घटपटादीनाम् । विविक्षितघटज्ञानं हि न घटाकारं, नापि ३० पटाद्याकारम्, अतोऽनाकारत्वाविशेषात् कथं घटस्यैव तज्ज्ञानं, न तु पढादेरपीति ? ।।
१ 'वेदयते' इति क-पाठः । २ 'रूपता स्यात्, अन्यथा' इति ग-पाठः । ३ 'वेदयते' इति क- पाठः । ४ ' प्रतीयति भाव०' इति ङ-पाठः ।