________________
अधिकारः] वोपनव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) अपान्तरालस्खलनेनावयविनि तदसिद्धेः। समाहारगुरुत्वानुपलब्धिपक्षोऽप्यवयविभावेन समाहार्यान्तरभावात् तदधिकगुरुत्वोपलब्धिप्रसङ्गादिदोषतोऽघटमान एवेत्यपकर्णयितव्यः ॥ ५ . न चासावमूर्तः, अग्रहणप्रसङ्गात् , मूर्तीनुवेधेऽपि खभावानुज्झनात्, अन्यथा कथञ्चित् तद्रूपतापत्तेरिति । न चार्थे सत्यपि तगहणोपायः समस्ति, युक्त्ययोगात् । स हि संवेदनग्राह्यः स्यात् । तच
(खो० व्या०) इत्याह-अपान्तरालस्खलनेन हेतुना अवयविनि तदसिद्धेः-गुरुत्वप्रतिबन्धा." सिद्धेरिति । तस्यापि महत्त्वेन अनुपलक्षणायोगादिति स्थितम् । समाहारगुरुत्वानुपलब्धिपक्षोऽपि सप्तपूल्यादौ । किमित्याह-अवयविभावेन हेतुना समाहार्यान्तरभावात् कारणात् तदधिकगुरुत्वोपलब्धिप्रसङ्गादिदोषतःअवयवाधिकगुरुत्वोपलब्धिप्रसङ्गादिदोषात् कारणात् । 'आदि'शब्दाद् मेदोपलब्धिप्रसङ्गग्रहः । किमित्याह-अघटमान एवेत्यपकर्णयितव्यः॥
१५ .. न चासौ-अवयवी अमूर्तः। कुत इत्याह-अग्रहणप्रसङ्गादाकाशवत् मूर्तानुवेधेऽपि सति अवयवापेक्षया खभावानुज्झनात्, अमूर्त्तत्वापरित्यागात् इत्यर्थः । अन्यथा-एवमनभ्युपगमे कथञ्चित् केनचित् प्रकारेण तद्रूपतापत्ते:मूर्तीवयवरूपतापत्तेरित्यवयव्यपि न युज्यत एव इति स्थितम् । दूषणान्तरमाह न चेत्यादिना । न च अर्थे सत्यपि-परमाण्वादिरूपे तद्हणोपाय:--अर्थग्रहणो- २०
(विवरणम्) (११-१२) समाहारगुरुत्वानुपलब्धिपक्षोऽपीति । यथाहि सप्तानां पूलानां समाहार इति सप्तपूलीत्यत्र सप्तपूलीगुरुत्वव्यतिरिक्तं न किञ्चित् समाहारगुरुत्वमुपलभ्यते, ऍवमवयविनोऽपि गुरुत्वमिति । एवंरूपो यः समाहारगुरुत्वानुपलब्धिपक्षः सोऽप्यघटमान इत्यपकर्णयितव्यः॥ . (१२-१३) अवयविभावेन हेतुना समाहार्यान्तरभावात् कारणादिति । अवयविभावेनेति कोऽर्थः समाहार्यान्तरभावात् कारणात् । अयमर्थः-सप्तानां पूलानां समाहार इति वाक्यसामर्थ्यात् सप्तपूलव्यतिरिक्तं समाहाराभिधानं समाहार्यान्तरं प्राप्तमवयविकल्पम् । ततोऽत्रापि त एव तदधिकगुरुत्वोपलब्धिप्रसङ्गादयो दोषा इति ।।
१ 'खभावान्तराभवनात् अन्यथा' इति ग-पाठः। २ 'समस्त्ययुक्त्ययोगात्' इति क-पाठः । ३ 'हार्यान्तराभावात्' इति क-पाठः। ४ 'प्रसङ्गः' इति उ-पाठः। ५ 'साह-घटमान' इति - पाठः। ६ “एक्मक्यविन्यपि गुरु०' इति क-पाठः। ५ 'हार्यान्तराभावात्' इति च-पाठः । ..
अनेकान्त. २