________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
(मूलम्) धिक्यातुलनस्य विजातीयेषु योगात् अवयविनेव आ अवयवं तैराजलमव्याः , तत्प्रयत्नप्रतिबन्धयोगेन गुरुत्वप्रतिबन्धाभावात्
(खो० व्या०) लक्षणायोगात् । तुलानतिविशेषस्य गुरुत्वानुविद्धमेतदित्यर्थः । तत्परिहारपरिहाराय आह-जलमत्स्यादौ 'आदि'शब्दात् तथाविधकाष्ठादिग्रहः जलाधिक्यातुलनस्य सति । किमिलाह-विजातीयेषु-मत्स्यादिषु योगात् कारणात् । योगश्च अवयविनेव अवयवमिति व्यतिरेकदृष्टान्तः यथाऽवयविना आ अवयवं स्वावयवा१० पेक्षया व्याप्तिरेवं तैः-मत्स्यादिभिराजलं-सकलजलमर्यादया अव्याप्तेः कारणात् । यदि नामैवं ततः किमित्याह-तत्प्रयत्नप्रतिवन्धयोगेन-मत्स्यादिप्रयत्नप्रतिबन्धयोगेन हेतुना। किमित्याह-गुरुत्वप्रतिबन्धाभावात् । न चायमवयविन्यपि
(विवरणम्) (६) गुरुत्वानुविद्धमेतदित्यर्थ इति । अत्र एतत्पटादेमहत्त्वं गुरुत्वानुविद्धं "वर्तते, यतस्तत्तुलायां नतिविशेषाग्रहणं न स्यादेवेत्यर्थः ॥
(६) तत्परिहारपरिहारायेति । तस्य-अवयविवादिनः सम्बन्धी यः परिहारः खपक्षव्यवस्थापनरूपस्तत्परिहाराय-तन्निराकरणायाह-ब्रूते सूत्रकारः-योगाचारेणावयव्यपेक्षतया तुलानतिविशेषग्रहणेऽवयविवादिनं प्रति प्रसञ्जिते स एवं परिहारमाह--यथा जलभृतभाजनान्तर्गतस्य मत्स्यादेन जलादाधिक्येन तुलनं, एवमधि२० कृतावयविनोऽप्यवयवापेक्षया नाधिक्येन तुलनमिति । अत्रापि योगाचार एवं परि
हारं प्रतिपादयति-युक्तं तत्राधिक्यातुलनं मत्स्यादेः, सकलजलावयवानामव्यापकत्वेन प्रतिहतसामर्थ्यत्वात् । यत्र हि सर्वावयवव्याप्तिः परस्परं भवति तत्र भवत्येव आधिक्येन तुलनं, यथा क्षीर-नीरयोर्मिलितयोः सतोः। मत्स्यस्तु न सर्वनीरावयवव्यापक इति युक्ता तत्सामर्थ्यप्रतिस्खलना। अवयविना तु सर्व एव वारम्भका २५अवयवा व्याप्ता इति क्षीरनीरन्यायादधिकतया तत्तुलनं स्यात् । अपश्चितश्चायमर्थः
खयमेव सूत्रकृता; सुखावबोधाय किन्चिल्लिखित मिति ।।
१'तत्प्रति यसै प्रतिबन्धस्य वा त अपान्तरा.' इति क-पाठो विचारणीयः। २ 'तत्परिहा. रायाह' इति ऊ-पाठः। ३ 'तत्तुलायामनति' इति च-पाठः । ४ 'स्थापनकास्तस्परि.' इति क-पाठः।