________________
अधिकारः ]
स्वोपज्ञव्याख्या मुनिचन्द्रीय विवरणयुतम्
(मूलम् )
ग्रहणात् तस्यापि महरवेनानुपलक्षणायोगात् जलमत्स्यादौ जला
( स्वो० व्या० )
जन्मापि युक्त्युपपन्नं तुलानतिविशेषाग्रहणात् । यदि ह्यन्य एवावय - ५ वेभ्योऽवयवी जन्मासादयेत् ततः पञ्चभ्यः पलेभ्यः सूत्रादेः पटादिनिष्पत्तौ तत्तोलने तुलानतिविशेषो गृह्येत सूत्रादेस्तादवस्थ्य एव तदधिकपटादिभावात् न च गृह्यत इति । एतत्समर्थनायाह-तस्यापि - अवयविनो महत्त्वेन हेतुना अनुप -
( विषरणम् )
सति यत् सम्पन्नं तदाह- इत्येवमभावस्य - तुच्छरूपस्य सतः कार्यस्य प्रागवस्थायाँ १ भावजनने - भावरूपतयोत्पत्तौ सत्यां कुतः - कस्माद्धेतोः, नैवेत्यर्थः तज्जनकत्वम्अवयव्याख्यकार्य हेतुत्वमण्वादीनामिति । अयमन्त्राभिसन्धि: - यैर्वाह्यार्थवादिभिः अण्वादिभ्यो भिन्नमेव तज्जन्यं कार्यमिति कैक्षीक्रियते, तेषां मते अण्वादय एव कार्यरूपतया न परिणमन्ते, स्वाभ्युपगमप्रकोपात् । अर्थे चासमुपजायते कथञ्चनापि कार्यम् । एवं च सामर्थ्यादिदमापन्नं यदुत पूर्वं खरविषाणप्रख्यस्य सतः कार्यस्य हेतु- १५ सम्पर्के सति तद्भावः; न च सत्कार्य प्रतीत्य जनकत्वमङ्गीक्रियमाणमण्यादीनां न्यायमार्गमवतरति, अकिञ्चित्करत्वेनाम्बरारविन्दादीनामपि प्रतीत्य जनकत्वापत्तेरिति ॥
अजनकत्वमेव किचिद्भेदेनाह - (पृ. ६, पं. १८) हेतुत्व नियता वाऽजनयन्तो न तद्धेतव इति । हेतुत्वे - विवक्षितकार्यजनकत्वे नियताः - प्रतिनियैतवृत्तयो येऽण्वाद्यवयवाः 'वा'शब्दो विकल्पार्थः । अजनयन्तः सन्तो विवक्षितकार्य न-नैव तद्धेतवः - २० विवक्षितकार्यहेतवो युज्यन्ते । यदि हि ते तस्मिन् जनयितव्ये प्रतिनियता एव, तर्हि सर्वदैव जनयन्तु । न च सर्वदैव जनयन्ति, कदाचिदेव पटादिकार्योपलम्भात् । ततश्च कदाचिज्जनकाः कदाचिदजनका इत्यायातम् । एवंविधाश्च सन्तः कथं तज्जनने ते प्रतिनियता एव ? । अपि तु अप्रतिनियता एव । अप्रतिनियताश्च कथं तज्जनका: ? । एवं युक्त्या विचार्यमाणं न कथञ्चनापि अवयवानामत्रयविजनकत्वं २५ कोटिसमाटीकत इति ॥
१ 'भावः भावने भाव०' इति क - पाठचिन्त्यः । च- पाठस्तु 'भाषभवने भाव०' इति । २ ' कक्षीयते' इति ख- पाठः । ३ ' अथवा ' इति च - पाठः । ४ 'नियतवृत्तयोs (?) एवावयवाः इति ख- पाठः; च- पाठस्तु 'नियतवृत्तयोऽएवाद्यत्रयवाः' इति । ६ 'कदाचित् तज्जनकाः' इति क-पाठः । ७ 'कथं अनेन ते' इति इति क-पाठः ।
५ 'एवं तहिं' इति क-पाठः । क- पाठः ।
८ 'घटकीटी०