________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
(मूलम् ) न चास्य वारम्भकावयवेभ्यो जन्मापि युत्त्युपपन्नम् , तन्नित्यत्वेन तजननखभावत्वानिवृत्तः, प्राग्वत् पश्चादपि तद्भावाभावात्, तेषा५ मपि स्वभावनियतत्वेन तत्त्वतोजनकत्वात्,तथा तुलानतिविशेषा
(खो० व्या) अवयवभिन्नदेशकल्पने अवयविनः । किमित्याह-अतिप्रसङ्गात् तदवयव्यन्तरस्यापि कल्पनादित्सवयव्यपि न युज्यत एव इति क्रिया ॥
इहैव दूषणान्तरमाह न चेत्यादिना । न च अस्य-अवयविनः वारम्भका१० वयवेभ्यः सकाशात् जन्मापि युत्तयुपपन्नम् , उत्पादोऽपि घटत इत्यर्थः । कुत इत्याह-तन्नित्यत्वेन-अवयवनित्यत्वेन हेतुना तज्जननवभावत्वानिवृत्तेःअवयविजननस्वभावत्वानिवृत्तेः कारणात् । किमित्याह-प्राग्वत्-तजन्मकालात् पूर्ववदिति निदर्शनम् । पश्चादपि-उत्तरकालमपि तद्भावाभावात्-अवयविभावाभावात् । एतदुक्तं भवति-आकालमेकस्वभावा अवयवाः, ततश्च तेभ्यः कदाचित् १५ तदभावे आकालमभाव इति । तथा तेषामपि-अवयवानामण्वादीनां स्वभावनियतत्वेन-आत्मभावनियततया, हेतुत्वनियतत्वेनेत्यर्थः तत्वतः-परमार्थेन अजनकत्वात् । त एव न कायभिवन्ति भवति च कार्यमित्यभावस्य भावभवने कुतस्तजनकत्वमिति हेतुत्वनियता वाऽजनयन्तो न तद्धेतव इति कुतो वा तजनकत्वमिति परिभावना । दूषणान्तरमाह तथेत्यादिना । इतश्च नास्य स्वारम्भकावयवेभ्यो
(विवरणम्) (१४-१५) कदाचित् तदभावे अकालभाव(?) इति । यदि हवयविजनननित्यैकस्वभावा एव तेऽवयवास्तदा सर्वदाऽवयविप्रसूतिरनिवारितसरा युज्यते । अथ कथश्चिदुपजनयन्ति तर्हि सर्वदाऽपि मा जनयन्तु प्रतिनियतैकस्वभावत्वात् तेषामिति ॥
(१७-१८) त एव न कार्याभवन्ति भवति च कार्यमितीत्यभावस्य भाव२५ जनने कुतस्तजनकत्वमितीति । त एव-परमाण्वाद्यवयवा एव न-नैव कार्यो
भवन्ति-कार्यरूपतया परिणति लभन्ते, परमाण्वादिभ्यो भिन्नत्वेनाभ्युपगमात् तज. न्यावयविलक्षणकार्यस्य । यदि त एव न कार्याभवन्ति तर्हि कार्यमेव न भविष्यतीत्याह-भवति च-जायते पुनः कार्य पटादि भवतां बाह्यार्थवादिनां मते । एवं
१'पश्चान्यथादपि तद्भावा०' इति क-पाठोऽनादरणीयः। २ 'प्रसरोपयुज्यते' इति ख-पाठः । च-पाठस्तु 'प्रसरोनुपयुज्यते' इति। ३ 'सर्वदाऽवयविप्रमा जनयन्तु' इति क-पाठः। ४ 'कार्यमित्यभावस्य' इति च-पाठः। ५'भवत्यबाह्या०' इति क-पाठः ।