________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) द्वारेण तत्तद्वृत्त्ययोगात् तत्सदेशताऽनेकतापत्तेः अभ्युपगमादिविरोधात् प्रकारान्तरेण च वृत्त्ययोगाद वर्तन्त इति ब्रूम इति वचनमात्रत्वात् भिन्नदेशस्य चाग्रहणात् तथाऽनुभवाभावात्, ५ एवमपि तथाकल्पनेऽतिप्रसङ्गादिति ॥
(खो० व्या०) विनः तदभिन्नदेशताऽनुपपत्तेः-स्वावयवाभिन्नदेशताऽनुपपत्तेः तथा देशका
ल्पविकल्पद्वारेण तत्तवृत्त्ययोगात् तस्य-अवयविनस्तेषु-अवयवेषु वृत्त्ययोगात् । अयोगश्च तत्सदेशताऽनेकतापत्तेः। यदि देशेनावयवेषु वर्ततेऽवयवी १० ततः सदेशता; अथ कात्स्न्येन ततोऽनेकतेति । ततः किमित्याह-अभ्युपगमादिविरोधात् सदेशतायामभ्युपगमविरोधः । 'आदि'शब्दादनेकतायां प्रतीतिबाधा । तथा प्रकारान्तरेण-देशकास्यातिरिक्तेन वृत्त्ययोगात् अवयवेष्ववयविनः अत एव वर्तन्त इति ब्रूम इति वचनमात्रत्वात् तथा भिन्नदेशस्य चाग्रहणात् अक्यवेभ्योऽवयविन इति प्रक्रमः । अग्रहणं च तथाऽनुभवा-१५ भावात् तद्भिन्नदेशत्वेन । एवमपि-तथाऽनुभवाभावेऽपि तथाकल्पने--
(विवरणम्) (१२) अनेकतायां प्रतीतिबाधेति । यदि ह्यवयवी स्वावयवेषु प्रत्येकं सामस्येन प्रवर्तते, तदा यावन्तोऽवयवास्तावन्त एवैकस्मिन्नप्यवयविनि अवयविनः प्राप्नुवन्ति । तथा च प्रतीतिबाधा । न किस्मिन्नेव पटे बह्वः पटाः केनचित् प्रतीयन्त इति उप-२० लक्षणत्वाश्च प्रतीतिबोधयाऽभ्युपगमविरोधोऽपि दृश्यः। नहि वैशेषिकैरेकस्मिन् पटे बहवः पटाः समभ्युपगम्यन्त इति ॥
(१४) अत एव वर्तत इति ब्रूम इति वचनमात्रत्वादिति । वैशेषिको हि देशकास्य विकल्पद्वारेणावयवैष्ववयविनो वृत्तिप्रतिषेधे प्रतिपादिते बौद्धादिना इदमुत्तरमुररीकुरुते यदुत वर्तत एवावयवेष्ववयवी कथञ्चनापि इति वयं ब्रूमः । न त्वेतद्-२५ भिदध्मो यदुत देशेन सामस्त्येन वेति । एतच्च वचनमात्रमेव प्रसार्यपादार्पणप्रायमिति ।। योगाचारः प्राह-यद्यवयवाभिन्नदेशोऽवयवी न घटते तथापि भिन्नदेशो भविप्यतीत्याह-(१४-१५) भिन्नदेशस्य चाग्रहणादिति । न हि तन्तुभ्यो व्यतिरिच्यमानमूर्तिर्भिन्नदेशः केनापि पटः समुपलभ्यत इति ॥
१'क्रम इति' इति क-पाठो भ्रान्तिमूलकः। २'देशस्यावग्रहणात्' इति क पाठः । ३ 'वर्तत' इति ङ-पाठः। ४ 'बोधः' इति च-पाठः। ५ 'बाधाया' इति ख-च-पाठः। ६ 'पादितबोधादिना' इति च-पाठः । ७ 'तत्त्वेतद.' इति क-पाठः । ८ 'प्रसार्यपादार्थणप्राय० इति ख-पाठः । ९ 'मूर्तिभिन्नः' इति च-पाठः ।