________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः (मूलम्) एवं च तन्निरवयत्वविरोधात्, इन्द्रियाग्राह्यसमूहत्वेन तदग्रहणतो व्यवहारायोगाच ॥ ५ अवयव्यपि न युज्यत एव, खावयवव्यतिरेकेणैव तस्याभ्युपगतत्वात् , मूर्तत्वेन तत्तदभिन्नदेशताऽनुपपत्तेः, देशकार्यविकल्प
(स्त्रो० व्या०) तन्निरवयवत्वविरोधात् तेषां-परमाणूनां निरवयवत्वं विरोधाद् दिग्भागभेदेनेति हृदयम् । तथा इन्द्रियाग्राह्यसमूहत्वेन हेतुनाऽणूनां तदग्रहणतः-समूहा१० ग्रहणेन व्यवहारायोगाच कारणात् समूहः प्रत्युक्त इति क्रिया ॥
अक्यविनमधिकृत्याह-अवयव्यपि न युज्यत एव । कुत इत्याहखावयवव्यतिरेकेणैव-एकान्ततः तस्य-अवयविनोऽभ्युपगतत्वात् परैः । ततः किमित्याह-मूर्त्तत्वेन हेतुना-असर्वगतद्रव्यपरिमाणभावेन तस्य-अवय
(विवरणम्) १५ वृत्तिं लभन्ते, एवं च सर्वेषामप्यणूनां निरवयवत्वहानिः, दिग्भागभेदभावात् ।
तथाहि-मध्यपरमाणुरेकेन देशेन प्राचीप्रतिबद्धाणुना सम्बन्धमनुभवति, एकेन च पश्चिमाशावर्तिपरमाणुना । एवमन्येनोत्तराश्रितपरमाणुं स्पृशति, अन्येन च दक्षिणे प्रतिबद्धम् , अन्येनोर्द्ध दिग्भागगतमन्येन चाधोभागवर्तिनमिति सप्रदेशता मध्याणोः ।
एवं बहिर्वर्त्तिनामप्यणूनामनेनैव न्यायेन सप्रदेशता भावनीयेति ॥ २० (१३) मूर्त्तत्वेन हेतुनेति । वैशेषिकाणां हि मतेऽन्य एव तन्तवोऽन्यश्च मूर्तस्व
भावः पटाख्योऽवयवीति ॥ __मूर्तत्वेनेत्यस्य पर्यायमाह वृत्तिकारः-(१३) असर्वगतद्रव्यपरिमाणभावेनेति । असर्वगतद्रव्यस्य पृथिवी-जल-ज्वलना-ऽनिलरूपस्य परिमाणं अणुमहत्त्वादिरूपं तस्य भावः-सत्ता तेन । मूर्तत्वेनेति कोऽर्थः १ असर्वगतद्रव्यपरिमाणभावेन । असर्वगत२५ द्रव्यपरिमाणत्वेनेत्यर्थः । तथा चोक्तम्-असर्वगतद्रव्यपरिमाणं मूर्तिरिति । अस्यार्थ:
वैशेषिकाणां मते नव द्रव्याणि पृथिवी-जल-ज्वलना-ऽनिल-नमः-काल-दिगा-ऽऽत्मन्मनःसज्ञानि । तंत्राद्यानि चत्वारि मनश्चासर्वगतानि । अन्यानि तु सर्वगतानि । ततोऽसर्वगतद्रव्यस्य पृथिव्यादेयत् परिमाणं तन्मूर्तिरिति उच्यते । ततश्च पटाख्यमवयवि द्रव्यं
पृथिवीद्रव्यान्तरभेदस्वभावं मूर्तमेव। एवं च कथंय त्रैवाकाशखण्डे तन्तवो मूर्ताः स्थिताः ३० तत्रैव पटाख्योऽवयवी मूर्तः स्थिति बनीयात् ? । न हि यत्रैव प्रदेशे न भवति पटः ॥
१ 'निरोधाद्' इति क-पाठः । २ 'भेदाभावात्' इति ख-पाठः। ३ 'नित्य पर.' इति खच-पाठः। ४ 'मूर्तत्वेन हेतुरिति' इति च-पाठः । ५ गतस्य द्रव्यस्य' इति ख-पाठः। ६ 'तन्नान्यानि' इति च-पाठः। ७ अत्र कश्चितू पाठप्रपात इति भाति ।