________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) त्वविचाराक्षमत्वात् कुतस्त इति। न च निरवयवत्वादमीषामयमदोषः, मूतत्वे निरवयवत्वायोगात् कचिदवस्थानेन नियमतः पर्यन्तसिद्धेः पारिमाण्डल्याभ्युपगमादिति । एतेन तत्समूहः५ प्रत्युक्तः, तेषामेव नैरन्तर्यावस्थानस्य तत्समूहत्वात् निरवयवानां च तत्त्वतो नैरन्तर्यावस्थानायोगात् सर्वत एकस्य तदपरभावापत्तेः।
(स्वो० व्या) यवत्वादमीषां-परमाणूनामयमदोषः-अनन्तरोदितः । कुत इत्याह-मूर्तत्वेन हेतुना निरवयत्वायोगात् । अयोगश्च कचिदवस्थानेन हेतुना १० नियमतः-नियमेन पर्यन्तसिद्धेः। तथा पारिमाण्डल्याभ्युपगमादिति । एतेन-अनन्तरोदितेन परमाणुनिराकरणेन तत्समूहः-परमाणुसमूहः प्रत्युक्त:निराकृतः । कुत इत्याह तेषामेव-परमाणूनां नैरन्तर्यावस्थानस्य तत्समूहत्वात्-परमाणुसमूहत्वात् , ततश्च तदभावात् तदभाव इत्यभिप्रायः । दूषणान्तरमाह-निरवयवानां च-परमाणूनां तत्त्वतः-परमार्थेन नैरन्तर्यावस्थाना-१५ योगात् । अयोगश्च सर्वतः-सर्वासु दिक्षु एकस्य, अणोरिति प्रक्रमः, तदपरभावापत्तेः-अपरपरमाणुभावापत्तेः । एवं च सर्वत एकस्य तदपरभावापत्या
(विवरणम्) त्वात् । दिग्भागभेदे हि परमाणूनामवश्यं सावयवत्वमायाति । तथाहि-अन्य एवांशः पूर्वदिग्भागवर्ती परमाणोः, अन्य एवांशाः पश्चिमोत्तरदक्षिणोर्वाधोदिग्भागवर्तिन २० इति व्यक्तमेव सावयवत्वम् । सावयवत्वे चावश्यं महत्त्वं पटादिवत् । न च परमाणोर्महत्वमङ्गीक्रियते तद्वादिभिः । तथा स परमाणुरेको वा स्यादनेको वा । एकश्चेदभ्युपगम्यते, कथं दिग्भागभेदः । अथानेक इति पक्षः कक्षीक्रियते, तद्यभ्युपगमहानिः, एकत्वेनाभ्युपगतत्वात् तस्येति ।। . (११) पर्यन्तसिद्धेरिति । दिग्भागभेदसिद्धेरित्यर्थः ॥
(१४) तदभावात् तदभाव इति । परमाणूनामभावात् परमाणुभिरारब्धस्य समूहस्य अभाव इत्यर्थः ॥
(१७) अपरपरमाणुभावापत्ते रिति । अपरेषां-मध्यभागवर्तिपरमाणूनां व्यतिरिक्ता ये परमाणवस्तेषां सम्बन्धी यो भावः-सत्ता तस्यापत्तिः-प्राप्तिस्तस्याः । यदा (?) हि हस्तिदन्तादिरूपतया कश्चित् परमाणुर्मध्ये वर्तते अपरे च सर्वासु दिनु तस्य ३०
१ 'क्षमत्वात् तथा निरवयव०' इति क-पाठः। २ 'परिमण्डलाभ्युप०' इति क-पाठः । ३ 'चावयवत्वं महत्त्वं' इति च-पाठः।