________________
२
अनेकान्तजयपताकाख्यं प्रकरणम्
[पञ्चमः
(मूलम् ) अन्याग्रहणात्, ग्रहणे चातिप्रसङ्गतो व्यवहारायोगादिति । नाप्यनुमानस्य विषयः, तदव्यभिचारिलिङ्गायोगात् । तत्र हि विज्ञानापन्यथानुपपत्तिर्लिङ्गं स्यात् । सा चायुक्तैव, तस्यान्यथाऽप्युपपत्तेः
अन्तर्वासनात एव भावात् । न च योगिग्राह्या इति न्याय्यं वचा, प्रमाणाभावात् । अग्राह्या इत्यपि किं प्रमाणमिति चेत्, ननु तद्युक्त्ययोगः। परमाणवो हि मूर्त्ता इष्यन्ते । मूर्त्तत्वे च सत्यवश्यं दिग्भागभेदेन भाव्यम् । सति चास्मिन् सावयवत्वमहत्त्वैकत्वानेक
(खो० व्या०) रूपेण अन्याग्रहणात्-परमाण्वग्रहणाद् ग्रहणे च अन्याकारणान्यस्य अतिप्रसङ्गतः-अतिप्रसङ्गेन नीलेन पीतग्रहणलक्षणेन व्यवहारायोगात् । परमाणवः तावदध्यक्षेण न प्रतीयन्त इति स्थितम् । नाप्यनुमानस्य विषयः परमाणव इति वर्तते । कुत इत्याह-तदव्यभिचारिलिङ्गायोगात्-परमाण्वव्यभिचारि१ लिङ्गात् । अयोगमेवाह-तत्र यस्माद् विज्ञानान्यथानुपपत्तिर्लिङ्ग स्यात् ।
सा चायुक्तैव । कुत इत्याह-तस्य-विज्ञानस्य अन्यथाऽपि-परमाणुरूपमर्थमन्तरेणापि उपपत्तेः। उपपत्तिश्च अन्तर्वासनात एव-आलयगतायाः सकाशाद् भावाद् विज्ञानस्य । न च योगिग्राह्या इति-एवं न्याय्यं वचः, परमाणव इति प्रक्रमः । कुतो नेत्याह-प्रमाणाभावाद् योगिज्ञानाप्रत्यक्षत्वेन । २० अग्राह्या इत्यपि किं प्रमाणमिति चेत्, योगिविज्ञानाप्रत्यक्षत्वस्य तुल्य
वादित्यभिप्रायः । एतदाशङ्कयाह-ननु तद्युत्तययोगः तेषां-परमाणूनां युक्तिभिरयोगः प्रमाणम् । एतद्भावनायैवाह-परमाणवो हीत्यादि । परमाणवो यस्मात् मूर्ती इष्यन्ते । मूर्त्तत्वे च सति किमित्याह-अवश्यं दिग्भागभेदेन
भाव्यम् । सति चास्मिन्-दिग्भागभेदे सावयवत्वमहत्त्वैकत्वानेकत्व२५ विचाराक्षमत्वात् कारणात् कुतस्त इति कुतः परमाणवः । न च निरव
(विवरणम्) अथ योगाचारमतवादे किञ्चिचूर्ण्यते ।(२४-२५)सावयवत्वमहत्त्वैकत्वानेकत्वविचाराक्षमत्वादिति। सावयवत्वं महत्त्वं च एकत्वानेकत्वं च तेषां विचारस्तस्याक्षम
१'प्रसङ्गात्' इति क-पाठः। २ 'तयुक्तयोगः' इति क-पाठः, ग-पाठस्तु 'तयुक्तया योगः' इति। ३ 'प्रसङ्गात्' इति ङ-पाठः। ४ 'तन्न यस्माद्' इति क-पाठः। ५ पन्नालिङ्ग इति क-पाठः। ६ किश्चिदवचूर्ण्यते' इति च-पाठः।