SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 500M श्रीयाकिनीमहत्तराधर्मसूनु श्रीहरिभद्रसूरिशेखरसूत्रितम् अनेकान्तजयपताकाख्यं प्रकरणम्। स्त्रोपज्ञया व्याख्यया श्रीमुनिचन्द्रसूरिप्रणीतेन टिप्पणकरूपेण विवरणेन च समलङ्कृतम् । ५ द्वितीयः खण्डः। पञ्चमोऽधिकारः। (मूलम् ) अन्यस्त्वाह-बाह्यमर्थमधिकृत्यैतत् सदसदादित्वमुक्तम् । एतच १० वन्ध्यासुतसौन्दर्यवदविषयमेव, तस्यैवासत्त्वात् । स हि परमाणवो पा स्युस्तत्समूहो वा अवयवी वेति सर्वश्चायमसन् , न्यायानुपपत्तेः। परमाणवस्तावदध्यक्षेण न प्रतीयन्ते, तथातदनुभवाभावात् स्थूलाकारसंवेदनोपपत्तेः, तस्य च तेष्वभावात्, अन्याकारेण च (खो० व्या) भन्यस्तु-योगाचार आह-बाह्यमर्थमधिकृत्य-घटादिरूप एतत् सद. सदादित्वमुक्तं वस्तुनः । एतच्च किमित्याह-वन्ध्यासुतसौन्दर्यवदिति निदर्शनम् , अविषयमेव-अगोचरमेव । कुत इत्याह-तस्यैव-बाह्यार्थस्य असत्त्वात् कारणात् । एतदेवाभिधातुमाह-स हीत्यादि । स यस्माद् बाह्योऽर्थः परमाणवो वा स्युः-भवेयुः तत्समूहो वा-परमाणुसमूहो वा भवेत् अवयवी २० वा-एको निरंश इति सर्वश्वायमसन्-न विद्यते । कुत इत्याह-न्यायानुप. पत्तेः-न्यायेनायुक्तेः । अनुपपत्तिमेवाह-परमाणवस्तावदध्यक्षेण-प्रत्यक्षेण न प्रतीयन्ते । कुत इत्याह-तथातदनुभवाभावात् तथा-परमाणुलेन तेनप्रत्यक्षेण अननुभवात् । अननुभवश्व स्थूलाकारसंवेदनोपपत्तेः ऊर्वाद्याकारत्वेम तस्य च-स्थूलस्याकारस्य तेषु-परमाणुषु अभावात् अन्याकारेण च-स्थूल- २५ 'सौदर्यः' इति ङ-पाठः। २ 'तदननुभवात्' इति क-पाठः । अनेकान्त. १
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy