________________
ગાથા– ૨૨૪ થી ૨૨૭
४०७
(0-२२४ थी. २२७)
पुरिसो जह को वि इहं वित्तिणिमित्तं तु सेवदे रायं। तो सो वि देदि राया विविहे भोगे सुहुप्पाए ।।२२४।। एमेव जीवपुरिसो कम्मरयं सेवदे सुहणिमित्तं । तो सो वि देदि कम्मो विविहे भोगे सुहुप्पाए ।।२२५।। जह पुण सो च्चिय पुरिसो वित्तिणिमित्तं ण सेवदे रायं। तो सो ण देदि राया विविहे भोगे सुहुप्पाए ।।२२६।। एमेव सम्मदिट्टी विसयत्थं सेवदे ण कम्मरयं । तो सो ण देदि कम्मो विविहे भोगे सुहुप्पाए।।२२७।। पुरुषो यथा कोऽपीह वृत्तिनिमित्तं तु सेवते राजानम् । तत्सोऽपि ददाति राजा विविधान् भोगान् सुखोत्पादकान् ।।२२४।। एवमेव जीवपुरुषः कर्मरजः सेवते सुखनिमित्तम् । तत्तदपि ददाति कर्म विविधान् भोगान् सुखोत्पादकान्।।२२५।। यथा पुनः स एव पुरुषो वृत्तिनिमित्तं न सेवते राजानम् । तत्सोऽपि न ददाति राजा विविधान् भोगान् सुखोत्पादकान्।२२६।। एवमेव सम्यग्दृष्टि: विषयार्थं सेवते न कर्मरजः । तत्तन्न ददाति कर्म विविधान् भोगान् सुखोत्पादकान् ।।२२७।।
यथा कश्चित्पुरुषो फलार्थं राजानं सेवते ततः स राजा तस्य फलं ददाति, तथा जीवः फलार्थं कर्म सेवते ततस्तत्कर्म तस्य फलं ददाति। यथा च स एव पुरुष फलार्थं राजानं न सेवते ततः स राजा तस्य फलं न ददाति, तथा सम्यग्दृष्टि: फलार्थं कर्म न सेवते ततस्तत्कर्म तस्य फलं न ददातीति तात्पर्यम्।