________________
नारंगि-पूग-कदली-फल-नारिकेलैः
सोऽहं यजे वरफलैर्वर-सिद्ध-चक्रम् ।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फलं नि. स्वाहा।
(शार्दूलविक्रीडित) गन्धाढ्यं सुपयो मधुव्रत-गणैः संगं वरं चन्दनम् ।
पुष्पौघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम् ।। धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये ।
सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वाञ्छितम् ।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घ्यपदप्राप्तये अयं नि, स्वाहा।
(भावाष्टक)
(द्रुतविम्बित) निज-मनो मणि-भाजन-भारया सम-रसैक-सुधारस-धारया। सकल बोध-कला-रमणीयकं सहज-सिद्धमहं परिपूजये ।।१।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्युविनाशनाय जलं नि. स्वाहा। सहज-कर्म-कलङ्क-विनाशनैरमल-भाव-सुवासित-चन्दनैः । अनुपमान-गुणावलि-नायकं सहज-सिद्धमहं परिपूजये ।।२।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसारतापविनाशनाय चन्दनं नि. स्वाहा। सहज-भाव-सुनिर्मल-तन्दुलैः सक्ल-दोष-विशाल-विशोधनैः । अनुपरोध-सुबोध-निधानकं सहज-सिद्धमहं परिपूजये ।।३।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् नि. स्वाहा। समयसार-सुपुष्प-सुमालया सहज-कर्मक-रेणु-विशोधया। परम-योग-बलेन वशीकृतं सहज-सिद्धमहं परिपूजये ।।४।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाणविध्वंसनाय पुष्पं नि. स्वाहा। अकृत-बोध-सुदिव्य-निवेद्यकैर्विहित-जाति-जरा-मरणान्तकैः । निरवधि-प्रचुरात्म-गुणालयं सहज-सिद्धमहं परिपूजये ।।५।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोगविनाशनाय नैवेद्यं नि. स्वाहा। सहज-रत्न-रुचि-प्रतिदीपकैः रुचि-विभूति-तमः प्रविनाशनैः। निरवधि-स्वविकास-प्रकाशनै सहज-सिद्धमहं परिपूजये ।।६।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशनाय दीपं नि. स्वाहा।
1000000 जिनेन्द्र अर्चना
निज-गुणाक्षय-रूप-सुधूपनैः स्वगुण-घाति-मल-प्रविनाशनैः । विशद-बोध-सुदीर्घ-सुखात्मकं, सहज-सिद्धमहं परिपूजये ।।७।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं नि. स्वाहा। परम-भाव-फलावलि-सम्पदा, सहज-भाव-कुभाव-विशोधया। निज-गुणास्फुरणात्म-निरञ्जनं सहज-सिद्धमहं परिपूजये ।।८।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फलं नि. स्वाहा।
नेत्रोन्मीलि-विकास-भाव-निवहैरत्यन्त-बोधाय वै, वार्गन्धाक्षत-पुष्प-दाम-चरुकैः सद्दीप-धूपैःफलैः। यश्चिंतामणि-शुद्ध-भाव-परम-ज्ञानात्मकैरर्चयेत्,
सिद्धं स्वादुमगाध-बोधमचलं संचर्चयामो वयम् ।।९।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनयंपदप्राप्तये अयं नि. स्वाहा। ज्ञानोपयोगविमलं विशदात्मरूपं, सूक्ष्म-स्वभाव-परमं यदनन्तवीर्यम् । कर्मोघ-कक्ष-दहनं सुख-सस्य-बीजं, वन्दे सदा निरुपमं वर-सिद्धचक्रम्।।
(शार्दूलविक्रीडित) त्रैलोक्येश्वर-वन्दनीय-चरणाः प्रापुः श्रियं शाश्वती यानाराध्य निरुद्ध-चण्ड-मनसः सन्तोऽपि तीर्थङ्कराः ।। सत्सम्यक्त्व-विबोध-वीर्य-विशदाऽव्याबाधताद्यैर्गुणैर्युक्तांस्तानिह तोष्टवीमि सततं सिद्धान् विशुद्धोदयान् ।।
(पुष्पाञ्जलिं क्षिपेत्)
जयमाला विराग सनातन शान्त निरंश, निरामय निर्भय निर्मल-हंस । सुधाम विबोध-निधान विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ||१|| विदरित-संसतिभाव निरङ्ग, समामत-पूरित देव विसंग। अबन्ध-कषाय-विहीन विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ।।२।। निवारित-दुष्कृत-कर्म-विपाश, सदामल-केवल-केलि-निवास। भवोदधि-पारग शांत विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥३।। अनन्त-सुखामृत-सागर धीर, कलङ्करजो-मल-भूरि-समीर । विखण्डित काम विराम विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह।।४॥ विकार-विवर्जित तर्जित-शोक, विबोधसुनेत्र-विलोकित-लोक।
विहार विराव विरङ्ग विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ।।५।। जिनेन्द्र अर्चना/100000000
१०६
___54