________________
सिद्ध पूजा
(आचार्य पद्मनन्दि कृत) ऊर्ध्वाधोरयुतं सबिन्दु सपरं ब्रह्मस्वरावेष्टितं वर्गापूरित-दिग्गताम्बुज-दलं तत्संधि-तत्त्वान्वितम् । अन्तःपत्र-तटेष्वनाहतयुतं ह्रींकार-संवेष्टितं
देवं ध्यायति यः स मुक्ति-सुभगो वैरीभ-कण्ठीरवः ।। ॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन्! अत्र अवतर अवतर संवौषट् । ॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन्! अत्र तिष्ठ तिष्ठ ठः ठः ॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन्! अत्र मम सन्निहितो भव-भव वषट् ।
(अनुष्टुप) निरस्त-कर्म-संबंधं सूक्ष्म नित्यं निरामयम् । वन्देऽहं परमात्मानममूर्तमनुपद्रवम् ।।
(वसन्ततिलका) सिद्धौ निवासमनुगं परमात्म-गम्यं
हान्यादि-भाव-रहितं भव-वीत-कायम् । रेवापगा-वरसरो-यमुनोद्भवानां
नीरैर्यजे कलशगैर्वर-सिद्ध-चक्रम् ।। ॐ ह्रीं श्री क्षायिकसम्यक्त्व-अनन्तदर्शन-अनन्तज्ञान-अनन्तवीर्य-अगुरुलघुत्वअवगाहनत्व-सूक्ष्मत्व-निराबाधत्वगुणसम्पन्न-सिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्म-जरा-मृत्युविनाशनाय जलं निर्वपामीति स्वाहा। आनन्द-कंद-जनकं घन-कर्म-मुक्तं
सम्यक्त्व-शर्म-गरिमं जननार्ति-वीतम् । सौरभ्य-वासित-भुवं हरि-चन्दनानां
गन्धैर्यजे परिमलैर्वर-सिद्ध-चक्रम् ।। ॐ ह्रीं श्री सिद्धचक्राधिपते सिद्धपरमेष्ठिने संसारतापविनाशनाय चन्दनं नि. स्वाहा। सर्वावगाहन-गुणं सुसमाधि-निष्ठं
सिद्ध स्वरूप-निपुणं कमलं विशालम् । १०४010000000000
1000 जिनेन्द्र अर्चना
सौगन्ध्य-शालि-वनशालि-वराक्षतानां
___पुंजैर्यजे शशि निभैर्वर-सिद्धचक्रम्।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् नि, स्वाहा। नित्यं स्वदेह-परिमाणमनादिसंज्ञं
द्रव्यानिपेक्षममृतं मरणाद्यतीतम् । मन्दार-कुन्द-कमलादि-वनस्पतीनां
पुष्पैर्यजे शुभतमैर्वर-सिद्ध-चक्रम्।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाणविध्वंसनाय पुष्पं नि. स्वाहा। ऊर्ध्व-स्वभाव-गमनं सुमनो व्यपेतं
ब्रह्मादि-बीज-सहितं गगनावभासम् । क्षीरान्न-साज्य-वटकै रस-पूर्ण-ग:
नित्यं यजे चरुवरैर्वर-सिद्ध-चक्रम् ।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोगविनाशनाय नैवेद्यं नि. स्वाहा । आतंक-शोक-भय-रोग-मद-प्रशांत
निर्द्वन्द्व-भाव-धरणं महिमा-निवेशम् । कर्पूर-वर्ति-बहुभिः कनकावदातै
दीपैर्यजे रुचिवरैर्वर-सिद्ध-चक्रम् ।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशनाय दीपं नि. स्वाहा। पश्यन्समस्त-भुवनं युगपन्नितान्तं
त्रैकाल्य-वस्तु-विषये निविड-प्रदीपम् । सद्रव्य-गन्ध-घनसार-विमिश्रितानां
धूपैर्यजे परिमलैर्वर-सिद्ध-चक्रम् ।। ॐ ह्रीं श्री सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं नि. स्वाहा। सिद्धासुराधिपति-यक्ष-नरेन्द्र-चक्रै
ध्येयं शिवं सकल-भव्य-जनैः सुवन्द्यम् । जिनेन्द्र अर्चना 000000000000
53