________________
ગાથા–૧૯૦ થી ૧૯૨
પ૩૧ NA
( ગાથા-૧૯૦-૧૯૨ )
केन क्रमेण संवरो भवतीति चेत् .
तेसिं हेदू भणिदा अज्झवसाणाणि सव्वदरिसीहिं। मिच्छत्तं अण्णाणं अविरयभावो य जोगो य।।१९०।। हेदुअभावे णियमा जायदि णाणिस्स आसवणिरोहो। आसवभावेण विणा जायदि कम्मस्स वि णिरोहो।।१९१।। कम्मस्साभावेण य णोकम्माणं पि जायदि णिरोहो। णोकम्मणिरोहेण य संसारणिरोहणं होदि ।।१९२।।
तेषां हेतवो भणिता अध्यवसानानि सर्वदर्शिभिः । मिथ्यात्वमज्ञानमविरतभावश्च योगश्च ।।१९०।। हेत्वभावे नियमाज्जायते ज्ञानिन आस्रवनिरोधः। आस्रवभावेन विना जायते कर्मणोऽपि निरोधः ।।१९१।। कर्मणोऽभावेन च नोकर्मणामपि जायते निरोधः।। नोकर्मनिरोधेन च संसारनिरोधनं भवति ।।१९२।।
सन्ति तावज्जीवस्य आत्मकर्मैकत्वाध्यासमूलानि मिथ्यात्वाज्ञानाविरतियोगलक्षणानि अध्यवसानानि। तानि रागद्वेषमोहलक्षणस्यास्रवभावस्य हेतवः। आस्रवभावः कर्महेतुः । कर्म नोकर्महेतुः । नोकर्म संसारहेतुः इति। ततो नित्यमेवायमात्मा आत्मकर्मणोरेकत्वाध्यासेन मिथ्यात्वाज्ञानाविरतियोगमयमात्मानमध्यवस्यति । ततो रागद्वेषमोहरूपमास्रवभावं भावयति। ततः कर्म आस्रवति। ततो नोकर्म भवति। ततः संसारः प्रभवति । यदा तु आत्मकर्मणो दविज्ञानेन शुद्धचैतन्यचमत्कारमात्रमात्मानं उपलभते तथा मिथ्यात्वाज्ञानाविरतियोगलक्षणानां अध्यवसानानां आस्रवभावहेतूनां भवत्यभावः । तदभावे रागद्वेषमोहरूपास्रवभावस्य भवत्यभावः । तदभावे भवति कर्माभावः। तदभावेऽपि भवति नोकर्माभावः। तदभावेऽपि भवति संसाराभावः। इत्येष संवरक्रमः।