________________
Version 001: remember to check http://www.AtmaDharma.com for updates
કહાનજૈનશાસ્ત્રમાળા ]
ચરણાનુયોગસૂચક ચૂલિકા
यो हि नामाप्रतिषिद्धोऽस्मिन्नुपधिरपवादः, स खलु निखिलोऽपि श्रामण्यपर्यायसहकारिकारणत्वेनोपकारकारकत्वादुपकरणभूत एव न पुनरन्यः । तस्य तु विशेषाः सर्वाहार्यवर्जितसहजरूपापेक्षितयथाजातरूपत्वेन बहिरङ्गलिङ्गभूताः कायपुद्गलाः, श्रूयमाणतत्काल
दोषाः पुरुषाणां किं न भवन्तीति चेत् । एवं न वक्तव्यं, स्त्रीषु बाहुल्येन भवन्ति। न चास्तित्वमात्रेण समानत्वम्। एकस्य विषकणिकास्ति, द्वितीयस्य च विषपर्वतोऽस्ति किं समानत्वं भवति । किंतु पुरुषाणां प्रथमसंहननबलेन दोषविनाशको मुक्तियोग्यविशेषसंयमोऽस्ति । तासि कह संजमो होदि ततः कारणात्तासां कथं संयमो भवतीति ।। *२६ ।। अथ स्त्रीणां तद्भवमुक्तियोग्यां सकलकर्मनिर्जरां निषेधयति
जदि दंसणेण सुद्धा सुत्तज्झयणेण चावि संजुत्ता।
घोरं चरदि व चरियं इत्थिस्स ण णिज्जरा भणिदा ।। २७ ।।
૪૧૩
जदि दंसणेण सुद्धा यद्यपि दर्शनेन सम्यक्त्वेन शुद्धा, सुत्तज्झयणे चावि संजुत्ता एकादशाङ्गसूत्राध्ययनेनापि संयुक्ता, घोर चरदि व चरियं घोरं पक्षोपवासमासोपवासादि चारित्रं, इत्थिस्स ण णिज्जरा भणिदा तथापि स्त्रीजनस्य तद्भवकर्मक्षययोग्या सकलनिर्जरा न भणितेति भावः। किंच यथा प्रथमसंहननाभावात्स्त्री सप्तमनरकं न गच्छति, तथा निर्वाणमपि । “पुंवेदं वेदंता पुरिसा जे खवगसेढिमारूढा । सेसोदयेण वि तहा झाणुवजुत्ता य ते दु सिज्झंति' इति गाथाकथितार्थाभिप्रायेण भावस्त्रीणां कथं निर्वाणमिति चेत् । तासां भावस्त्रीणां प्रथमसंहननमस्ति, द्रव्यस्त्रीवेदाभावात्तद्भवमोक्षपरिणामप्रतिबन्धकतीव्रकामोद्रेकोऽपि नास्ति । द्रव्य-स्त्रीणां प्रथमसंहननं नास्तीति कस्मिन्नागमे कथितमास्त इति चेत् । तत्रोदाहरणगाथा-'' अंतिमतिगसंघडणं णियमेण य कम्मभूमिमहिलाणं। आदिमतिगसंघडणं णत्थि त्ति जिणेहिं णिद्दिद्वं ' ' ।। अथ मतम् - यदि मोक्षो नास्ति तर्हि भवदीयमते किमर्थमर्जिकानां महाव्रतारोपणम् । परिहारमाह- तदुपचारेण कुलव्यवस्थानिमित्तम्। न चोपचारः साक्षाद्भवितुमर्हति अग्निवत् क्रूरोऽयं देवदत्त इत्यादिवत् । तथाचोक्तम् - मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । किंतु यदि तद्भवे मोक्षो भवति स्त्रीणां तर्हि शतवर्षदीक्षिताया अर्जिकाया अद्यदिने दीक्षितः
ટીકા:- આમાં જે અનિષિદ્ધ ઉપધિ અપવાદ છે, તે બધોય ખરેખર એવોજ છે કે જે શ્રામણ્યપર્યાયના સહકારી કારણ તરીકે ઉપકાર કરનારો હોવાથી ઉપકરણભૂત છે, બીજો નહિ. તેના વિશેષો ( ભેદો ) આ પ્રમાણે છે: (૧) સર્વ આહાર્ય રહિત સહજ રૂપથી અપેક્ષિત એવા (સર્વ આહાર્ય રહિત ) યથાજાતરૂપપણાને લીધે જે બહિરંગ લિંગભૂત છે
=
૧. આહાર્ય બહારથી લાવવામાં આવતું; કૃત્રિમ; ઔપાધિક [ સર્વ કૃત્રિમ-ઔપાધિક ભાવોથી રહિત એવું જે મુનિના આત્માનું સહજ રૂપ તે, વસ્ત્રાભૂષણાદિક સર્વ કૃત્રિમતાઓથી રહિત યથાજાતરૂપપણાની અપેક્ષા રાખે છે અર્થાત્ મુનિના આત્માનું રૂપદશા-સહજ હોવાથી દેહ પણ યથાજાત જ હોવો જોઈએ; માટે યથાજાતરૂપપણું તે મુનિપણાનું બાહ્ય લિંગ છે. ]
Please inform us of any errors on rajesh@Atma Dharma.com