________________
Version 001: remember to check http://www.AtmaDharma.com for updates
કહાનજૈનશાસ્ત્રમાળા ]
ચરણાનુયોગસૂચક ચૂલિકા
४०७
अथ कस्यचित्वचित्कदाचित्कथञ्चित्कश्चिदुपधिरप्रतिषिद्धोऽप्यस्तीत्यपवादमुपदिशति
छेदो जेण ण विज्जदि गहणविसग्गेसु सेवमाणस्स। समणो तेणिह वट्टदु कालं खेत्तं वियाणित्ता।। २२२।।
छेदो येन न विद्यते ग्रहणविसर्गेषु सेवमानस्य। श्रमणस्तेनेह वर्ततां कालं क्षेत्रं विज्ञाय।। २२२ ।।
ममत्वरहितचिचमत्कारपरिणतेर्विसदृशा मूर्छा कथं नास्ति, अपि त्वस्त्येव। क्व। तस्मिन् परिग्रहाकाक्षितपुरुषे। आरंभो वा मनोवचनकायक्रियारहितपरमचैतन्यप्रतिबन्धक आरम्भो वा कथं नास्ति, किन्त्वस्त्येव; असंजमो तस्स शुद्धात्मानुभूतिविलक्षणासंयमो वा कथं नास्ति, किन्त्वस्त्येव तस्य सपरिग्रहस्य। तध परदव्वम्मि रदो तथैव निजात्मद्रव्यात्परद्रव्ये रतः कधमप्पाणं पसाधयदि स तु सपरिग्रहपुरुषः कथमात्मानं प्रसाधयति, न कथमपीति।। २२१।। एवं श्वेताम्बरमतानुसारिशिष्यसम्बोधनार्थं निर्ग्रन्थमोक्षमार्गस्थापनमुख्यत्वेन प्रथमस्थले गाथापञ्चकं गतम्। अथ कालापेक्षया परमोपेक्षासंयमशक्त्यभावे सत्याहारसंयमशौचज्ञानोपकरणादिकं किमपि ग्राह्यमित्यपवादमुपदिशति-छेदो जेण ण विज्जदि छेदो येन न विद्यते। येनोपकरणेन शुद्धोपयोगलक्षणसंयमस्य छेदो विनाशो न विद्यते। कयोः। गहणविसग्गेसु ग्रहणविसर्गयोः। यस्योपकरणस्यान्यवस्तुनो वा ग्रहणे स्वीकारे विसर्जने त्यागे। किं कुर्वतः तपोधनस्य। सेवमाणस्स तदुपकरणं सेवमानस्य। समणो तेणिह वट्टद् काल खेत्तं वियाणित्ता श्रमणस्तेनोपकरणेनेह लोके वर्तताम्। किं कृत्वा। कालं क्षेत्रं च विज्ञायेति। अयमत्र भावार्थ:-कालं पञ्चमकालं शीतोष्णादिकालं वा, क्षेत्रं भरतक्षेत्रं मानुषजाङ्गलादिक्षेत्रं वा, विज्ञाय येनोपकरणेन स्वसंवित्तिलक्षणभावसंयमस्य बहिरङ्गद्रव्यसंयमस्य वा छेदो न भवति तेन वर्तते इति।। २२२ ।।
- હવે, “કોઈને કયાંક કયારેક કોઈ પ્રકારે કોઈક ઉપધિ અનિષિદ્ધ પણ છે” એવો અપવાદ (उपदेश छ:
ગ્રહણે વિસર્ગે સેવતાં નહિ છેદ જેથી થાય છે, તે ઉપધિ સહ વર્તે ભલે મુનિ કાળક્ષેત્ર વિજાણીને. ૨૨૨.
अन्वयार्थ:- [ ग्रहणविसर्गेषु ] ४ उधिने (२॥२-
नीहिन ) अ६ विसनमा सेवतां [येन] लेनाथी [ सेवमानस्य ] सेवनारने [छेद:] छेद [ न विद्यते ] थतो नथी, [ तेन] ते ७५धि सहित, [कालं क्षेत्रं विज्ञाय] क्षेत्रने एाने, [इह ] सोम [श्रमणः ] श्रम [ वर्तताम् ] ભલે વર્તો.
Please inform us of any errors on rajesh@AtmaDharma.com