________________
Version 001: remember to check http://www.AtmaDharma.com for updates
પ્રવચનસાર
[ भगवान श्रीकुंकुं८
(अनुष्टुप) हेलोल्लुप्तमहामोहतमस्तोमं जयत्यदः। प्रकाशयज्जगत्तत्त्वमनेकान्तमयं महः।।२।।
(आर्या) परमानन्दसुधारसपिपासितानां हिताय भव्यानाम्। क्रियते प्रकटिततत्त्वा प्रवचनसारस्य वृत्तिरियम्।।३।।
अथ प्रवचनसारव्याख्यायां मध्यमरुचिशिष्यप्रतिबोधनार्थायां मुख्यगौणरूपेणान्तस्तत्त्वबहिस्तत्त्वप्ररूपणसमर्थायां च प्रथमत एकोत्तरशतगाथाभिर्ज्ञानाधिकारः, तदनन्तरं त्रयोदशाधिकशतगाथाभिर्दर्शनाधिकारः, ततश्च सप्तनवतिगाथाभिश्चारित्राधिकारश्चेति समुदायेनैकादशाधिकत्रिशतप्रमितसूत्रैः सम्यग्ज्ञानदर्शनचारित्ररूपेण महाधिकारत्रयं भवति। अथवा टीकाभिप्रायेण तु सम्यग्ज्ञानज्ञेयचारित्राधिकारचूलिकारूपेणाधिकारत्रयम्। तत्राधिकारत्रये प्रथमतस्तावज्ज्ञानाभिधानमहाधिकारमध्ये द्वासप्ततिगाथापर्यन्तं शुद्धोपयोगाधिकार: कथ्यते। तासु द्वासप्तति-गाथासु मध्ये ‘एस सुरासुर-' इमां गाथामादिं कृत्वा पाठक्रमेण चतुर्दशगाथापर्यन्तं पीठिका , तदनन्तरं सप्तगाथापर्यन्तं सामान्येन सर्वज्ञसिद्धिः, तदनन्तरं त्रयस्त्रिंशद्गाथापर्यन्तं ज्ञानप्रपञ्चः, ततश्चाष्टादशगाथापर्यन्तं सुखप्रपत्रुश्चेत्यन्तराधिकारचतुष्टयेन शुद्धोपयोगाधिकारो भवति। अथ पञ्चविंशतिगाथापर्यन्तं ज्ञानकण्डिकाचतुष्टयप्रतिपादकनामा द्वितीयोऽधिकारश्चेत्यधिकारद्वयेन, तदनन्तरं स्वतन्त्रगाथाचतुष्टयेन चैकोत्तरशतगाथाभिः प्रथममहाधिकारे समुदायपातनिका ज्ञातव्या।
इदानीं प्रथमपातनिकाभिप्रायेण प्रथमतः पीठिकाव्याख्यानं क्रियते, तत्र पञ्चस्थलानि भवन्ति; तेष्वादौ नमस्कारमख्यत्वेन गाथापञ्चकं. तदनन्तरं चारित्रसचनमख्यत्वेन 'संपज्जइ । प्रभृति गाथात्रयमथ शुभाशुभशुद्धोपयोगत्रयसूचनमुख्यत्वेन ‘जीवो परिणमदि' इत्यादिगाथासूत्रद्वयमथ तत्फलकथनमुख्यतया 'धम्मेण परिणदप्पा' इति प्रभृति सूत्रद्वयम्। अथ शुद्धोपयोगध्यातुः पुरुषस्य प्रोत्साहनार्थं शुद्धोपयोगफलदर्शनार्थं च प्रथमगाथा, शुद्धोपयोगिपुरुषलक्षणकथनेन द्वितीया चेति 'अइसयमादसमुत्थं' इत्यादि गाथाद्वयम्। एवं पीठिकाभिधानप्रथमान्तराधिकारे स्थलपञ्चकेन चतुर्दशगाथाभिस्समुदायपातनिका। तद्यथा
[ હવે અનેકાન્તમય જ્ઞાનની મંગળ અર્થે શ્લોકદ્વારા સ્તુતિ કરે છેઃ ].
[ અર્થ-] મહા મોહરૂપી અંધકારના સમૂહને જે લીલામાત્રમાં નષ્ટ કરે છે અને જગતના સ્વરૂપને પ્રકાશે છે એવું અનેકાન્તમય તેજ સદા જયવંત વર્તે છે.
[ હવે શ્લોકદ્વારા શ્રીઅમૃતચંદ્રાચાર્યદવ અનેકાન્તમય જિનપ્રવચનના સારભૂત આ 'वयनसार' शास्त्रीनीट पानी प्रति। रेछ:]
[ અર્થ-] પરમાનંદરૂપી સુધારસના પિપાસુ ભવ્ય જીવોના હિતને માટે, તત્ત્વને (વસ્તસ્વરૂપને) જે પ્રગટ કરે છે એવી પ્રવચનસારની આ ટીકા કરવામાં આવે છે.
Please inform us of any errors on rajesh@AtmaDharma.com