________________
Version 001: remember to check http://www.AtmaDharma.com for updates
छान नास्त्रमाणा]
જ્ઞાનતત્ત્વ-પ્રજ્ઞાપન
૧૪૩
मूढो भावः स खलु मोहः। तेनावच्छन्नात्मरूपः सन्नयमात्मा परद्रव्यमात्मद्रव्यत्वेन परगुणमात्मगुणतया परपर्यायानात्मपर्यायभावेन प्रतिपद्यमानः, प्ररूढदृढतरसंस्कारतया परद्रव्यमेवाहरहरुपाददानो, दग्धेन्द्रियाणां रुचिवशेनाद्वैतेऽपि प्रवर्तितद्वैतो, रुचितारुचितेषु विषयेषु रागद्वेषावुपश्लिष्य, प्रचुरतराम्भोभारस्याहत: सेतुबन्ध इव द्वेधा विदार्यमाणो नितरां क्षोभमुपैति। अतो मोहरागद्वेषभेदात्त्रिभूमिको मोहः।। ८३।।
हि दानस्य च हि स्फुटं ते ते पूर्वोक्तरत्नत्रयाधाराः। णमो तेसिं नमस्तेभ्य इति नमस्कारस्यापि त एव योग्याः।। ७।। एवमाप्तात्मस्वरूपविषये मूढत्वनिरासार्थं गाथासप्तकेन द्वितीयज्ञान-कण्डिका गता। अथ शुद्धात्मोपलम्भप्रतिपक्षभूतमोहस्य स्वरूपं भेदांश्च प्रतिपादयति-दव्वादिएसु शुद्धात्मादिद्रव्येषु , तेषां द्रव्याणामनन्तज्ञानाद्यस्तित्वादिविशेषसामान्यलक्षणगुणेषु, शुद्धात्मपरिणतिलक्षणसिद्धत्वादिपर्यायेषु च यथासंभवं पूर्वापवर्णितेषु वक्ष्यमाणेषु च मूढो भावो एतेषु पूर्वोक्तद्रव्यगुणपर्यायेषु विपरीताभिनिवेशरूपेण तत्त्वसंशयजनको मूढो भावः जीवस्य हवदि मोहो त्ति इत्थंभूतो भावो जीवस्य दर्शनमोह इति भवति। खुब्भदि तेणुच्छण्णो तेन दर्शनमोहेनावच्छन्नो झम्पित: सन्नक्षुभितात्मतत्त्वविपरीतेन क्षोभेण क्षोभं स्वरूपचलनं विपर्ययं गच्छति। किं कृत्वा। पप्पा रागं व दोसं वा निर्विकारशुद्धात्मनो विपरीतमिष्टानिष्टेन्द्रियविषयेषु हर्षविषादरूपं चारित्रमोहसंज्ञं रागद्वेषं वा प्राप्य चेति। अनेन किमुक्तं भवति। मोहो दर्शनमोहो रागद्वेषद्वयं चारित्रमोहश्चेति त्रिभूमिको मोह इति।। ८३।। अथ दुःखहेतुभूतबन्धस्य कारणभूता रागद्वेषमोहा निर्मूलनीया इत्याघोषयति
રૂપ આચ્છાદિત હોવાથી આ આત્મા પરદ્રવ્યને સ્વદ્રવ્યપણે, પરગુણને સ્વગુણપણે અને પરપર્યાયોને
સ્વપર્યાયપણે સમજીને-અંગીકાર કરીને, અતિ રૂઢ થયેલા દઢતર સંસ્કારને લીધે પરદ્રવ્યને જ પ્રતિદિન (-हमेश) अ९९॥ १२तो, ६२५ (-4जी) छद्रियोनी २यि ५२ तम ५९॥ द्वैत प्रवतावतो, ‘ચિત-અરુચિત વિષયોમાં રાગદ્વેષને પામીને, અતિપ્રચુર જળસમૂહુના વેગથી પ્રહાર પામતા
સેતુબંધની માફક 'દ્વિધા વિદારિત થતો અત્યંત ક્ષોભ પામે છે. આથી મોહ, રાગ ને દ્વેષ-એ ભેદોને सीधे भो ! प्रा२नो छ. ८3.
१. ६ढत२ = द २. ६५ = जणी; ६डी; शापित. (' ' मेति२२२वाय श६ छ.) ૩. ઇંદ્રિયવિષયોમાં પદાર્થોમાં “આ સારા ને આ નરસા” એવું દૈત નથી; છતાં ત્યાં પણ મોહાચ્છાદિત જીવ
સારા-નરસારૂપ દ્વત ઊભું કરે છે. ४. रुयित-सरुयित = गमता-मागमता ५. सेतुबंध = पुस ૬. દ્વિધા વિટારિત = બે ભાગમાં ખંડિત
Please inform us of any errors on rajesh@AtmaDharma.com