________________
Version 001: remember to check http://www.AtmaDharma.com for updates
श्री सर्वज्ञवीतरागाय नमः।
मंगलाचरण ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः। कामदं मोक्षदं चैव ॐ काराय नमो नमः। अविरलशब्दधनाधप्रक्षालितसकलभूतलकलङ्का । मुनिभिरूपासिततीर्था सरस्वती हरतु नो दुरितान्।।
अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः।
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूमृताम्। ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये।।
नमः समयसाराय स्वानुभूत्या चकासते। चित्स्वभावाय भावाय सर्वभावान्तरच्छिदे।।
विविक्तमव्ययं सिद्धं स्व-स्वभावोपलब्धये। स्व-स्वभाव – मयं बुद्धं ध्रुव स्तौमि विकल्पमषम्।।
मंगलं भगवान् वीरो मंगलं गौतमो गणी। मंगलं कुन्दकुन्दार्यों जैनधर्मोऽस्तु मंगलम्।। सर्वमंगलमांगल्यं सर्वकल्याणकारकं । प्रधानं सर्व धर्माणां जैनं जयतु शासनम्।।
Please inform us of any errors on rajesh@AtmaDharma.com