SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ૨ ધ્યેયપૂર્વક શેય भावसंज्ञं ज्ञातव्यं तत्तु। बन्धमोक्षपर्यायपरिणतिरहितं। यत्पुनर्दशप्राणरूपं जीवत्वं भव्याभव्यत्वद्वयं च तत्पर्यायार्थिकनयाश्रितत्त्वाद-शुद्धपारिणामिकभावसंज्ञमिति। कथम- शुद्धमिति चेत्, संसारिणां शुद्धनयेन सिद्धानां तुं सर्वथैव दशप्राणरूपजीवत्वभव्याभव्यत्वद्वयाभावादिति। तस्य त्रयस्य मध्ये भव्यत्वलक्षणपारिणामिकस्य तु यथासंभवं सम्यक्त्वादिजीवगुणघातकं देशघातिसर्वघातिसंज्ञं मोहादिकर्मसामान्यं पर्यायार्थिकनयेन प्रच्छादकं भवति इति विज्ञेयं। तत्र च यदा कालादिलब्धिवशेन भव्यत्वशक्तेर्व्यक्तिर्भवति तदायं जीवः सहजशुद्धपारिणामिकभावलक्षणनिजपरमात्मद्रव्यसम्यक्श्रद्धानज्ञानानुचरणपर्यायरुपेण परिणमति। तच्च परिणमन- मागमभाषयोपशमिकक्षायोपशमिक क्षायिकं भावत्रयं भण्यते। अध्यात्मभाषया पुनः शुद्धात्माभिमुखपरिणामः शुद्धोपयोग इत्यादि पर्यायसंज्ञां लभते । स च पर्यायः शुद्धपारिणामिकभावलक्षणशुद्धात्मद्रव्यात्कथंचिद्भिन्नः। कस्मात् ? भावनारूपत्वात्। शुद्धपारिणामिकस्तु भावनारूपो न भवति। यधेकान्तेनशुद्धपारिणामिकादभिन्नो भवित तदास्य भावनारूपस्य मोक्षकारणभूतस्य मोक्षप्रस्तावे विनाशे जाते सति शुद्धपारिणामिकभाव स्थापि विनाशः प्राप्नोति; न च तथा । ततः स्थितं - शुद्धपारिणामिकभावविषये या भावना तद्रूपं यदौपशमिकादिभावत्रयं तत्समस्तरागादिरहितत्त्वेन शुद्धोपादानकारणत्वान्मोक्षकारणं भवति, न च शुद्धपारिणामिकः । यस्तु शक्तिरूपो मोक्षः स शुद्धपारिणामिके पूर्वमेव तिष्ठति । अयं तु व्यक्तिरूपमोक्षविचारो वर्तर्ते। तथा चोक्तं सिद्धांते-निष्क्रियः शुद्धपारिणामिकः । निष्क्रिय इति कोऽर्थः ? बन्धकारणभूता या क्रिया रागादिपरिणतिः, तद्रूपो न भवति । मोक्षकारणभूता च क्रिया शुद्धभावनापरिणतिस्तद्रूपश्च न भवति । ततो ज्ञायते शुद्धपारिणामिकभावो ध्येयरूपो भवति ध्यानरूपो न भवति । कस्मात् ? ध्यानस्य विनश्वरत्वात्। तथा योगीन्द्रदेवैरप्युक्तं - णवि उपज्जइ णवि मरइ बंधु ण मोक्खु करेइ । जिउ परमत्थे जोइया जिणवर एउ भणेइ । किंच विवक्षितैकदेशुद्धनयाश्रितेयं भावना निर्विकारस्वसंवेदनलक्षणभेदक्षायोपशमिकाज्ञानत्वेन यद्यप्येकदेशव्यक्ति-रूपा भवति तथापि ध्याता पुरुष: यदेव सकल निरावरणमखण्डैकप्रत्यक्ष-प्रतिभाससमयमविनश्वरं शुद्धपारिणामिकपरमभावलक्षणं निजपरमात्मद्रव्यं तदेवा-हमिति भावयति न च खण्डज्ञानरूपमिति भावार्थ: । इदं तु व्याख्यानं परस्परसापेक्षागमाध्यात्मनयद्धयाभिप्रायस्या- विरोधेनैव कथितं सिद्धयतीति ज्ञातव्यं विवेकिभिः। अब इसी कर्तृत्व व भोक्तृत्व अ अभाव का दृष्टांत पूर्वक समर्थन करते हैंअर्थ- जैसे चक्षु देखने योग्य पदार्थ को देखता ही है उसका कर्ता तथा Please inform us of any errors on Rajesh@Atma Dharma.com
SR No.008232
Book TitleDhyey purvak Gney
Original Sutra AuthorN/A
AuthorKanjiswami
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year2000
Total Pages260
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Discourse
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy