________________
Version 001: remember to check http://www.AtmaDharma.com for updates
ગાથા-૩૨૦
શ્રી જયસેનાચાર્યકૃત “તાત્પર્યવૃત્તિ” નામની સંસ્કૃત ટીકા તથા તેનો
હિન્દી તથા ગુજરાતી અનુવાદ. - अथ तमेव कर्तृत्वभोक्तृत्वाभावं विशेषेण समर्थयतिदिट्ठी सयंपि णाणं अकारयं तह अवेदयं चेव। जाणदि य बंधमोक्खं कम्मुदयं णिज्जरं चेव।।३४३।।
दिट्ठी सयंपि णाणं अकारयं तह अवेदयं चेव यथा दृष्टि: की दृश्यमग्निरूपं वस्तुसंधुक्षणं पुरुषवन्न करोति तथैव च तप्तायःपिण्डवदनुभवरूपेण न वेदयति। तथा शुद्धज्ञानमप्यभेदेन शुद्धज्ञानपरिणतजीवो वा स्वयं शुद्धोपादानरूपेण न करोति न च वेदयति। अथवा पाठान्तरं दिट्ठी खयंपि णाणं तस्य व्याख्यानं- न केवलं दृष्टि: क्षायिकज्ञानमपि निश्चयेन कर्मणामकारकं तथैवावेदकमपि। तथाभूतः सन् किं करोति ? जाणदि य बंधमोक्खं जानाति च कौ ? बन्धमोक्षौ। न केवलं बन्धमोक्षौ कम्मुदयं णिज्जरं चेव शुभाशुभरूपं कर्मोदयं सविपाकाविपाकरूपेण सकामाकामरूपेण वा द्विधा निर्जरां चैव जानाति इति। एवं सर्वविशुद्धपारिणामिकपरमभावग्राहकेण शुद्धोपादानभूतेन शुद्धद्रव्यार्थिकनयेन कर्तृत्वभोक्तृत्वबन्धमोक्षादिकारणपरिणामशून्यो जीव इति सूचितं समुदायपातनिकायां पश्चाद्गाथाचतुष्टयेन जीवस्याकर्तृत्वगुणव्याख्यान-मुख्यत्वेन सामान्यविवरणं कृतम्। पुनरपि गाथाचतुष्टयेन शुद्धस्यापि यत्प्रकृतिभिर्बन्धो भवति तदज्ञानस्य माहात्म्यमित्यज्ञानसामर्थ्यकथनरूपेण विशेषविवरणं कृतं। पुनश्च गाथाचतुष्टयेन जीवस्याभोक्तृत्वगुणव्याख्यानमुख्यत्वेन व्याख्यानं कृतं। तदनन्तरं शुद्धनिश्चयेन तस्यैव कर्तृत्वबन्धमोक्षादिककारणपरिणामवर्जनरूपस्य द्वादशगाथाव्याख्यानस्योपसंहाररूपेण गाथाद्वयं गतं ।।३४३।।
इति श्रीजयसेनाचार्य कृतायां समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृतौ मोक्षाधिकारसंबन्धिनी चतुर्दशगाथा-मिश्चतुर्भिरन्तराधिकारैश्चूलिका समाप्ता। अथवा द्वितीयव्याख्यानेनात्र मोक्षाधिकार: समाप्तः।
किं च विशेष:- औपशमिक: दिपञ्चभावानां मध्ये केन भावेन मोक्षो भवतीति विचार्यते। तत्रौपशमिक-क्षायोपशमिकक्षायिकोदयिकभावचतुष्टयं पर्यायरूपं भवति शुद्धपारिणामिकस्तु द्रव्यरूप इति। तच्च परस्परसापेक्षं द्रव्यपर्यायद्वय-मात्मपदार्थो भण्यते। तत्र तावज्जीवत्वभव्यत्वत्रिविधपारिणामिकभावमध्ये शुद्ध जीवत्वंशक्तिलक्षणं यत्पारिणामिकत्वं तच्छुद्धद्रव्यार्थिकनयाश्रितत्त्वान्निरावरणं शुद्धपारिणामिक
Please inform us of any errors on Rajesh@AtmaDharma.com