________________
Version 001: remember to check http://www.AtmaDharma.com for updates
ચૈતન્ય વિલાસ
[न अहं रागः द्वेषः] हुँ २२ नथी, द्वेष नथी, [न च एव मोह:] तम४ भो नथी; [ तेषां कारणं न ] तमनु (ई) १२९॥ नथी; [कर्ता न हि कारयिता] तमनो (इं) ऽता नथी, १२यिता नथी, [कर्तृणाम अनुमंता न एव] ऽताना मनुभाई नथी.
[न अहं क्रोधः मानः ] ई मेघ नथी, भान नथी, [ न च एव अहं माया ] तेम४ कुं माया नथी, [ लोभः न भवामि ] दोन नथी; [कर्ता न हि कारयिता] तमनो (कुं) ता नथी, अयिता नथी, [ कर्तृणाम अनुमंता न एव] निो अनुमो. नथी.
अत्र शुद्धात्मनः सकलकर्तृत्वाभावं दर्शयति।
बहारंभपरिग्रहाभावादहं तावन्नारकपर्यायो न भवामि। संसारिणो जीवस्य बरारंभपरिग्रहत्वं व्यवहारतो भवति अत एव तस्य नारकायुष्कहेतुभूतनिखिलमोहरागद्वेषा विद्यन्ते, न च मम शद्धनिश्चयबलेन शद्धजीवास्तिकायस्य। तिर्यक्पर्यायप्रायोग्यमायामिश्रा- शभकर्माभावात्सदा तिर्यकपर्यायकर्तृत्वहीनोऽहम्। मनुष्यनामकर्मप्रायोग्यद्रव्यभावकर्माभावान्न में मनुष्यपर्यायः शुद्धनिश्चयतो समस्तीति। निश्चयेन देवनामधेयाधारदेवपर्याययोग्य सुरससुगंधस्वभावात्मकपुद्गलद्रव्यसम्बन्धाभावान्न मे देव पर्यायः इति। ___चतुर्दशभेदभिन्नानि मार्गणास्थानानि तथाविधभेदविभिन्नानि जीवस्थानानि गुणस्थानानि वा शुद्धनिश्चयनयतः परमभावस्वभावस्य न विद्यन्ते।
मनुष्यतिर्यक्पर्यायकायवयः कृतविकारसमुपजनितबालयौवनस्थविरवृद्धावस्थाद्यने कस्थूलकृशविविधभेदाः शुद्ध निश्चयनयामिप्रायेण न मे सन्ति।
सत्तावबोधपरमचैतन्यसुखानुभूतिनिरतविशिष्टात्मतत्त्वग्राहकशुद्धद्रव्यार्थिकनयबलेन मे सकलमोहरागद्वेषा न विद्यन्ते।
सहजनिश्चयनयतः सदा निरावरणात्मकस्य शुद्धावबोधरूपस्य सहजचिच्छक्तिमयस्य सहजध्वस्फूर्तिपरिपूर्णमूर्ते: स्वरूपाविचलस्थितिरूपसहजयथाख्यातचारित्रस्य न मे निखिलसंसृतिक्लेशहेतवः क्रोधमानमायालोभाः स्युः।।
अथामीषां विविधविकल्पाकुलानां विभावपर्यायाणां निश्चयतो नाहं कर्ता, न कारयिता वा भवामि, न अनुमंता वा कर्तुणा पुद्गलकर्मणामिति।
नाहं नारकपर्याय कुर्वे, सहजचिद्विलासात्मकमात्मानमेव संचिंतये। नाहं तिर्यक्पर्यायं कुर्वे, सहजचिद्विलासात्मकमात्मानमेव संचितये। नाहं मनुष्यपर्यायं कुर्वे, सहजचिद्विलासात्मकमात्मानमेव संचिंतये। नाहं देवपर्यायं कुर्वे, सहजचिद्विलासात्मकमात्मानमेव संचिंतये।
नाहं चतुर्दशमार्गणास्थानभेदं कुर्वे, सहजचिद्विलासात्मकमात्मानमेव संचिंतये। ટીકા- અર્ધ શુદ્ધ આત્માને સકળ ફ્રૂત્વનો અભાવ દર્શાવે છે.
બહુ આરંભ તથા પરિગ્રહનો અભાવ હેવાને લીધે હું નારકપર્યાય નથી. સંસારી જીવને બહુ આરંભ-પરિગ્રહ વ્યવહારથી હેય છે અને તેથી જ તેને નારક-આયુના હેતુભૂત સમસ્ત મોહરાગદ્વેષ હોય છે, પરંતુ મને શુદ્ધનિશ્ચયના બળે શુદ્ધજીવાસ્તિકાયને–તેઓ નથી.
Please inform us of any errors on Rajesh@AtmaDharma.com