________________
:11:
Vada]
Nihnavavada [ज्येष्ठा सुदर्शना जमालिरनवद्या श्रावस्तीतेन्दुकोद्याने। पञ्चशतानि च सहस्रं ढङ्केन जमालि मुक्त्वा ॥१२॥२३०७॥ 12. Jyesthā Sudarśanā Jamaliranavadyā Śrūvasti-Taindukodyāne i
Pancaśatāni ca sahasram Dhankena Jamālim muktvā (2307)]
TRANS. 12. Jyesthā (alias) Sudarśanā (alias) Anavadyā and Jamāli ( developed the theory of Bahuratas ) in the Tainduka garden of Sravasti. Five hundred (monks) and one thousand (nuns) excepting Jamali (were advised) by Dhanika (2307)
, टीका १२ व्याख्या--अत्र भावार्थस्तावत् कथानकेनोच्यते-इहैव भरतक्षेत्रे कुण्डपुरं नाम नगरम् । तत्र भगवतः श्रीमन्महावीरस्य भागिनेयो जमालिर्नाम राजपुत्र आसीत् । तस्य च भार्या श्रीमन्महावीरस्य दुहिता । तस्याश्च ज्येष्ठेति वा, सुदर्शनेति वा, अनवद्याङ्गीति वा नामेति । तत्र पञ्चशतपुरुषपरिवारो जमालिभगवतो महावीरस्यान्तिके प्रव्रज्यां जग्राह । सुदर्शनापि सहलस्त्रीपरिवारा तदनु प्रबजिता । ततश्चैकादशस्वङ्गेष्वधीतेषु जमालिना भगवान् विहारार्थमुत्कलापितः । ततो भगवता तूष्णीमास्थाय न किञ्चित् प्रत्युत्तरमदायि । तत एवममुत्कलितोऽपि पञ्चशतसाधुपरिवृतो निर्गतः श्रीमन्महावीरान्तिकात् । ग्रामानुग्राम च पर्यटन् गतः श्रावस्तीनगर्याम् । तत्र च तैन्दुकाभिधानोद्याने कोष्टकनानि चैत्ये स्थितः । ततश्च तत्र तस्यान्त-प्रान्ताहारैस्तीवो रोगातङ्कः समुत्पनः । तेन च न शक्रोत्युपविष्टः स्थातुम् । ततो बभाण श्रमणान्-“मनिमित्तं शीघ्रमेव संस्तारकमास्तृणीत येन तत्र तिष्ठामि” । ततस्तैः कर्तुमारब्धोऽसौ । बाढंच दाहज्वराभिभूतेना जमालिना पृष्टम् “संस्तृतः संस्तारको न वा ?" इति । साधुभिश्च संस्तृतप्रायत्वादर्धसंस्तुतेऽपि प्रोक्तम् "संस्तृतः” इति । ततोऽसौ वेदनाविह्वलितचेता उत्थाय नत्र तिष्ठासुरर्धसंस्तृतं तद् दृष्ट्वा क्रुद्धः "क्रियमाणं कृतम्" इत्यादि सिद्धान्तवचनं स्मृत्वा मिथ्यात्वमोहनीयो दयतो वक्ष्यमाणयुक्तिवितिथमिति चिन्तयामास । ततः स्थविरैर्वक्ष्यमाणाभिरेव युक्तिभिः प्रतिबोधितो यदा कथमपि न प्रविबुध्यते तदा गतास्तं परित्यज्य भगवत्समीपे । अन्ये तु तत्समीप एव स्थिताः । सुदर्शनापि तदा तत्रेव श्रावक ढङ्ककुम्भकारगृह आसीत् । जमाल्यनुरागेण च तन्मतमेव प्रपन्ना ढङ्कमपि तद् ग्राहयितु प्रवृत्ता। ततो ढक्केन 'मिथ्यात्वमुपगतेयम्' इति ज्ञात्वा प्रोक्तम्-" नेदृशं किमपि वयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org