________________
523
Jinabhadra Gani's [ The eleventh च त्वं सुष्टु न जानासि, ततस्तं शृणु “ न ह वै०, इत्यादि पूर्वाध सुगमत्वादत्र गाथाद्वये न व्याख्यातम्, तदपि सुखप्रतिपत्त्यर्थं व्याख्यायते-'न' इति निपातो निषेधार्थः । 'ह' वै' इत्येतदपि निपातद्वयं हिशब्दार्थत्वाद् यस्मादर्थे । सह शरीरेण वर्तत इति सशरीरो जीवस्तस्य सशरीरस्येत्यत्रैवकारो द्रष्टव्यः । ततश्चायपर्थः-यस्मात् सशरीरस्य जीवस्य पिया-ऽपिययोः सुखदुःखयोरपहतिर्विघातोऽन्तरं नास्ति, न त्वशरीरस्य; तस्मादशरीरं शरीररहितं मुक्त्यवस्थायां वसन्तं लोकान्तस्थितं जीवं प्रिया-ऽपिये सुख-दुःखे न स्पृशतः। इदमुक्तं भवति-यावदयं जीवः सशरीरः, तावत् सुखेन दुःखेन वाऽन्यतरेण कदाचिदपि न मुच्यते; अशरीरस्त्तसौ क्षीणवेदनीयत्वात् सुखदुःखाभ्यां कदाचिदपि न स्पृश्यत इति । एवंभूते चास्य वाक्यस्यार्थे सति योऽयमशरीरव्यपदेशः, असौ सत एव विद्यमानस्यैव जीवस्य मुक्त्यवस्थायां विधीयते, न तु सर्वथा नष्टस्य । कुतः ? इत्याह-निषेधात् । इह यो यस्य निषेधः स तस्य सत एव विधीयते, न त्वसतः, यथाऽधन इति, अत्र सत एव देवदत्तस्य धननिषेधो विधीयते, न त्वसतः खरविषाणस्य ।
__ आह-न विद्यते शरीरं यस्येत्येवं निषेधादन्यपदार्थे जीव एव कथं प्रतीयते? इत्याह-" ननिसेहओ य इत्यादि " व्याख्यातो विशेषप्रतिपत्तेः पर्युदासवृत्तिना नत्रा निषेधो नग्निषेधस्तस्माद् नग्निषेधात् कारणात् सशरीरादन्यस्मिंस्तद्विध एव शरीरसदृशे कस्मिंश्चिदन्यपदार्थे संपत्ययो विज्ञेयः, यथा "न ब्राह्मणोऽबाह्मणः" इत्युक्ते बाह्मणसदृशः क्षत्रियादिरेव गम्यते, न तु तुच्छरूपोऽभावः । उक्तंच-" नजिवयुक्तमन्यसदृशाधिकरणे लोके तथा बर्थगतिः" इति । इह च शरीरसदशोऽशरीरो जीव एव गम्यते, द्वयोरप्यु पयोगरूपत्वेन सदृशत्वात् । न चेह शरीरं सादृश्यबाधकम्, तस्य जीवेन सह क्षीर-नोरन्यायतो लोलीभूतत्वेनैकत्वादिति । तदेवं येन यस्मात् कारणात् नन्निषेधादन्यस्मिंस्तद्विध एवान्यपदार्थे संप्रत्ययो भवति, तेन तस्मात् कारणात् " अशरीरं वा वसन्तं " इत्यत्राशरीरमाणे जीव एवाशरीरो युज्यते, न तु खरविषाणं तुच्छरूपोऽभाव इत्यर्थः। तदेवमशरीरमिति व्याख्यातम् ।। ४६९-४७० ॥ (२०१७-२०१८)
D. C.-Bhagavāna:--0 Prabhāsa | Really you do not understand the proper meaning of the sentences such as “Va
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org