________________
Vada ]
Gaṇadharavada
: 215:
अयं त्वौपचारिको मनुष्यविशेषो माणवकः, तथा, कार्यमिदं घटादि, कारणं चेदं मृत्पिण्डादि; तथा, साध्यमिदमनित्यत्वादि, साधनं कृतकत्वादि, कर्ता घटादेः कुलालादिः; तथा अयं वक्ता, वादी, वचनं चेदं व्यवयवं पश्चावयवं वा; इदं च वाच्यमभिधेयमस्य शब्दसंदर्भस्य तथा, अयं स्वपक्षः, अयं च परपक्ष इति सर्वशून्यत्वे कुतोऽसौ विशेषो गम्यते ? । " किं वेह थिरेत्यादि " पृथ्व्यिाः स्थिरत्वम्, अपां द्रवत्वम्, वरुष्णत्वम् वायोश्चलत्वम्, आकाशस्यारूपित्वमित्यादयो नियताः सर्वदेवैकस्वभावाः विशेषाः सर्वशून्यतायां कुतो गम्यन्ते ? । तथा, शब्दादयो ग्राह्मा एव इन्द्रियाणि च श्रोतादीनि ग्राहकाण्येवेति कुतो नियमसिद्धिः १ ।
-
" समयेत्यादि " ननु सर्वशून्यतायां स्वप्ना स्वप्न सत्याऽलीकादीनां विशेषनिबन्धनाभावात् समतैव कस्माद् न भवति - यादृशः स्वप्नः, अस्वप्नोऽपि तादृश एव; यादृशश्वास्वप्न स्वप्नोऽपि तादृश एवेत्यादि ? | अथवा, विपर्ययः कुतो न भवति - यः स्वप्नः सोऽस्वप्नः यस्त्वस्वमः स स्वप्न इत्यादि । यदिवा, सर्वेषामपि स्वप्नाऽस्वप्नादीनां सर्वथाशून्यत्वेऽग्रहणमेव कस्माद् न भवति ? । भ्रान्तिवशादेव स्वप्ना स्वप्नादिग्रहणमिति चेत् । तदयुक्तम् - देश - काल-स्वभावादिनैयन्येन तद्ग्राहकज्ञानोत्पत्तेः । किञ्च, इयं भ्रान्तिः किं विद्यते, न वा १ । यदि विद्यते, तर्ह्यभ्युपगमविरोधः । अथ न विद्यते, तर्हि भ्रान्तेरसश्वाभावग्राहकज्ञानस्य निर्भ्रान्तत्वात् सन्त्येव सर्वे भावाः, न पुनः शून्यतेति । अथवा, अन्यत् पृच्छामो भवन्तम् - ननु सर्वशून्यत्वे शून्यतैव सम्यक्त्वं सतां भावानां ग्रहणं सद्ग्रहः, भावसत्त्वग्रहणं पुनर्मिथ्यात्वमित्यत्र कस्ते विशेषहेतुः ? |
46
" "
·
यदुक्तम्- न स्वतो भावानां सिद्धिः इत्यादि; तत्प्रतिविधानार्थमाह - "किह स-परो भयेत्यादि " ननु कथं ह्रस्व-दीर्घो भयविषये " इदं इस्वम् ” “ इदं दीर्घम् ” “ एतचु तदुभयम्" इत्येवंभूतो स्व-परो भय बुद्धिर्युग पदाश्रीयते भवता ? कथं च तेषां ह्रस्व-दीर्घा -भयानां परस्परमसिद्धिरुधुष्यते १ – पूर्वापरविरुद्धत्वाद् नैतद् वक्तुं युज्यत इत्यर्थः । अयमत्र भावार्थ:न स्वल्पापेक्षिकमेव वस्तूनां सत्त्वम्, किन्तु स्वविषयज्ञानजननाद्यर्थक्रियाकारित्वमपि । ततश्च हस्त्र - - दीर्घा-भयान्यात्मविषयं चेज्ज्ञानं जनयन्ति, तदा
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
"