________________
Vada ] Ganadharavida
:201: Hatu-pratyayasamagri visvag bhāvèşu no vā yat käryami Driśyatè sāmagrimayam sarvābhāvd na sāmagri. 147 (1695) ]
Trans 147 An object is accomplished by means of a group of causes taken together, and not by hétu or pratyaya in its individual capacity. (This) collection of causes cannot be (found) in the ( midst of) all-pervading negation.
टीका-हेतवः-उपादानकारणानि, प्रत्ययास्तु निमित्तकारणानि, तेषां हेतु-प्रत्ययानां या सामग्री तस्या विष्वम् भावेषु पृथगवस्थासु यत् कार्य न दृश्यते, दृश्यते च सामग्रीमयम्-संपूर्णसामडयवस्थायां पुनदृश्यत इत्यर्थः । एवं च सति कार्यस्य सर्वाभाव एव युक्त इति शेषः । सर्वाभावे च न सामग्री नैव सामग्रीसद्भावः प्रामोतीत्यर्थः। ततः सर्वशून्यतैवेति भावः । इदमत्र हृदयम्-हेतवश्व प्रत्ययाश्च स्वजन्यमर्थ किमेकैकशः कुर्वन्ति, संभूय वा?। न तावदेकैकशः, तथाऽनुपलब्धेः। तत एकैकस्मात् कार्यस्याभावात् सामउयामपि तदभाव एव स्यात् , सिकताकणतैलवदिति । इत्थं च सर्वस्यापि कार्यस्योत्परयभावे सामग्रीसद्भावो न प्रामोति, अनुत्पन्नायाः सामग्र्या अप्ययोगात्। ततश्च सर्वशून्यतैव जगतः । उक्तं च
हेतु-प्रत्ययसामग्री पृथग् भावेष्वदर्शनात् ।। तेन ते नाभिलप्या हि भावाः सर्वे स्वभावतः ॥१॥ लोके यावत् संज्ञा सामठ्यामेव दृश्यते यसात् । तसाद् न सन्ति भावा भावे सति नास्ति सामग्री ॥२॥
इत्यादि। अस च व्याख्या-पृथग्. भावेष्वदर्शनात “कार्यस्य" इति शेषः । तेन ते घटादयों भावा सर्वेऽपि खभावतः स्वरूपतो नामिलाप्या:, पृथगेकैकावस्थायी कार्यस्यानुत्पादाद , उत्पसिमन्सरेण च घटादिसंज्ञाऽप्रवृत्तेः, संज्ञाऽमावै चामिलप्तुमशक्यत्वादिति । कुतः पुनः पृथगवस्थायां संज्ञाप्रवृत्तिः ? इत्याह-" लोके याकदित्यादि" लोके यावत् संज्ञा “घटोऽयम्" इत्यादिसंज्ञाप्रवृत्तिः, तावत् संपूर्ण कार्य संपूर्णसामध्यामेव यस्मात् दृश्यते, पृथगभावे च सामण्यामप्यभावात् सिकतातैलवद् न सन्त्येव भावाः, भावासखे
कुतः सामग्रीसद्भाव: । इति ॥९४७ ।। (१६९५)
26 Jain Education International
For Private & Personal Use Only
www.jainelibrary.org