SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Jinabhadra Gani's [The third अतिसौक्ष्म्यात् परमाण्वादिः । मनोऽनवस्थानात्, सतोऽप्यनुपलब्धिर्यथा नष्टचेतसाम् । इन्द्रियापाटवात् किञ्चिद्वधिरादीनाम् । मतिमान्द्यादनुपलब्धिः सतामपि सूक्ष्मशास्त्रार्थविशेषाणाम् । अशक्यत्वात् स्वकर्ण-कृकाटिका मस्तकपृष्ठादीनाम् । आवरणाद् हस्तादिस्थगितलोचनानां कटकुव्याद्यावृत्तानां वा । अभिभवात् प्रसृतसूरतेजसि दिवसे तारकाणाम् सामान्यात् सूपलक्षितस्यापि माषादेः समानजातीयमाषादिराशिपतितस्याप्रत्यभिज्ञानात् सतोऽप्यनुपलब्धिः । अनुपयोगाद् रूपोपयुक्तस्य शेषविषयाणाम् । अनुपायात् शृङ्गादिभ्यो गोमहिष्यादिपयःपरिणामजिज्ञासोः । विस्मृतेः पूर्वोपलब्धस्य । दुरागमाद् दुरुपंदेशात् तत्प्रतिरूपकरीतिकादिविप्रलम्भितमतेः कनकादीनां सतामप्यनुपलब्धिः । मोहात् सतामपि जीवादितच्चानाम् । विदर्शनात् सर्वथाऽन्धादीनाम् वार्धक्यादिविकाराद् बहुशःपूर्वोपलब्धस्य सतोऽप्यनुपलब्धिः । अक्रियातो भूखननादिक्रियाऽभावाद् वृक्षमूलादीनामनुपलब्धिः । अनधिगमात् शास्त्राश्रवणात् तदर्थस्य सतोऽप्यनुपलब्धिः । कालविप्रकर्षाद् भूतभविष्यदृषभदेवपद्मनामतीर्थकरादीनामनुपलब्धिः । स्वभावविप्रकर्षाद् नभः पिशादीनामनुप लम्भः। तदेवं सतामप्यर्थानामेकविंशतिविधाऽनुपलब्धिः प्रवर्तते । अतोऽस्य कर्मानुगतस्य संसारिणो जीवस्याऽमूर्तत्वाद् नभस इव, कार्मणस्य तु सौक्ष्म्यात् परमाणोवि सतोऽनुपलब्धिः, नासतः । कथं पुनरेतज्झायते - नासत आत्मनो Sनुपलब्धिः, किन्तु सतः १ इति चेत् । उच्यते-- अनुमानैस्तत्सत्त्वस्य साधितत्वादिति ॥१३४ -१३५।। (१६८२-१६८३) I : 182: D. C. -Vayubhūti— If this soul is different from body, how is it that it is not seen entering or issuing forth from the body like a cataka (sparrow ) from a ghata ( vessel ) ? Bhagavan-Because of the two-fold anupalabdhi, O Gautama! the Soul is not perceived. These two types are - ( 1 ) Anupalabdhi of a non-existent object e. g. a kharaśrňga (horn of an ass) and (2) Anupalabdhi of an existent object. Now, for the non-perception of an existent object, there are twenty-one reasons. i. Atiduratva (Extreme remoteness )-Places like svarga, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.008004
Book TitleShraman Bhagvana Mahavira Part 3
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages586
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy