________________
Vida ] Ganadharavāda
:17: थानामनुस्माऽवस्थित आत्माऽभ्युपगन्तव्यः, अन्यथा " यत् सत् तत् सर्व क्षणिकम्" "क्षणिकाः सर्वे संस्काराः" निरात्मानः सर्वे भावाः" इत्यादि सर्वक्षणिकतादिविज्ञानं नोपपद्येत, तदभ्युपगमे च स्वमतत्यागप्रसक्तिः। अथवा, क्षणिकं विज्ञानमिच्छतैकस्सपि विज्ञानस्य युगपदनेकार्थता-सर्वभवनान्तर्गतार्थग्राहिताऽभ्युपगन्तव्या, येन सर्वक्षणिकतादिविज्ञानमुपपद्यते, न चैतदिष्यते, दृश्यते वा। "विण्णाणावस्था व त्ति" यदिवा, अवस्थानमवस्था, विज्ञानस्यावस्था विज्ञानावस्थाऽभ्युपगन्तव्या भवति । इदमुक्तं भवति-विज्ञानस्यानल्पकल्पाग्रशोऽवस्थानमेष्टव्यम् , येन तत् सर्वदा समासीनमंन्यान्यवस्तुविनश्वरतां वीक्षमाणं सर्वक्षणिकतामवगच्छेदिति सर्व प्रागेवोक्तमेव । एवं चाभ्युपगमे विज्ञानसंज्ञामात्रविशिष्टआत्मैवाभ्युपगतो भवति ।
___ अथैतद् बहुविज्ञानप्रभवादिकं नेष्यते, तर्हि प्रतीत्यवृत्तिविघात: प्रामोति । इदमत्र हृदयम्-कारणं प्रतीत्याश्रित्य कार्यस्य वृत्तिःप्रवृत्तिरुत्पत्तिरिति यावत्, न पुनः कारण कार्यावस्थायां कथञ्चिदप्यन्वेति, इत्येवं सौग. तैरभ्युपगम्यते। इत्थं चाभ्युपगम्यमानेऽतीतस्मरणादिसमस्तव्यवहारोच्छेदप्रसङ्गः। एवं हि व्यवहारप्रवृत्तिः स्याद् यद्यतीतानेकसंकेतादिज्ञानाश्रयस्तत्तद्विज्ञानरूपेण परिणामादन्वयी आत्माऽभ्युपगम्यते । तथाभ्युपगमे च सति प्रतीत्यवृत्त्यभ्युपमविधातः स्यादिति । ननु यदि विज्ञानस्य क्षणविनाश एते दोषाः प्रसजन्ति, तहिं कामी दोषा न भवन्ति? इत्याह-"न उ ठियेत्यादि" न त्वमदभ्युपगते जीवेऽभ्युपगम्यमान एते-दोषाः प्रसजन्ति । कथंभूते जीवे? स्थितसंभूतच्युतविज्ञानमये--कथञ्चिद् द्रव्यरूपतया स्थितम् , कथञ्चित्तुत्तरपर्यायेण संभूतम् , कथञ्चित्पुनः पूर्वपर्यायेण च्युतं विनष्टं यद् विज्ञानं तन्मय इत्यर्थः। तस्मादमुमेवोत्पाद-व्यय-ध्रौव्ययुक्तं शरीरादर्थान्तरभूतमसदभ्युपगतमात्मानं समस्तव्यवहारसिद्धये प्रतिपद्यस्वेति ॥१३०-१३१॥ (१६७८ -१६७९)
टीका-मतेर्मतिज्ञानस्य विधानानि नानाभेदरूपाणि तस्य यथोक्तरूपस्यात्मनः प्रवर्तन्ते । कथंभूतानि ? इत्याह-विचित्रो योऽसौ मतिज्ञानावरणक्षयोपशमस्ततो जातानि, अत एव खकारणभूतक्षयोपशमवैचित्र्याद् विचित्ररूपाणि । तथा, पर्यायरूपतया क्षणिकानि, द्रव्यरूपतया तु नित्यत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org