SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ : 112: Jinabhadra Gani's [The third यतस्तत् स्वविषयानुमानमन्येषां विज्ञानानामन्यविषयाणां च पक्षीकृतानां सत्तादि प्रसिद्धावेव युज्यते । नहि सत्वेनाप्यप्रसिद्धेशर्मिणि क्षणिकतादिधर्मः साध्यमानो विभ्राजते। को हि नाम शब्दादिष्वादावेव सत्वेनाप्रतीतेषु कृतकत्वादिनानित्यत्वादिधर्मान साधयति, "तत्र पक्षः प्रसिद्धोधर्मी” इत्यादिवचनात्। न चेदमेकमेकालम्बनं क्षणिकं च ज्ञानमेतद् वोढुं शक्नोति यदुत-अन्यज्ञानानि सन्ति, तद्विषयाश्च विद्यन्ते, तेषां च विषयाणां स्वविषयज्ञानजननस्वभावादय एवं भूता धर्माःसन्तीति । एतदपरिज्ञाने च कथमेतेषां क्षणिकतां साधयिष्यति, धर्मिण एवाप्रसिद्धेः । ___ स्यादेतत्, स्वविषयानुमानादेवान्यविज्ञानादिसत्तापि सेत्स्यत्येव, तथाहि-यथाऽहमस्मि तथान्यान्यपि ज्ञानानि सन्ति, यथा च मद्विषयो विद्यते, एवमन्येऽपि ज्ञानविषया विद्यन्त एव; यथा चाहं मद्विषयश्च क्षणिकः, एवमन्यज्ञानानि तद्विषयाश्च क्षणिका एवेति, एवं सर्वेषां सत्वं क्षणिकता च स्वविषयानुमानादेव सेत्स्यतीति । एतदप्ययुक्तम्, यतः सर्वक्षणिकताग्राहक ज्ञानं क्षणनश्वरत्वावन्मान्तरं "मृत इवाहमस्मि, क्षणिकं च" इत्येवमात्मानमपि नावबुध्यते, अन्यपरिज्ञानं तु तस्य दूरोत्सारितमेव । किञ्च, तत् स्वविषयमात्रस्यापि क्षणिकतां नावगच्छति, समानकालमेव द्वयोरपि विनष्टत्वात् । यदि हि स्वविषयं विनश्यन्तं दृष्ट्वा ततद्गतक्षणिकता निश्चित्य स्वयं पश्चात् कालान्तरे तद् विनश्येत् , तदा स्यात् तस्य स्वविषयक्षणिकताप्रतिपत्तिः, न चैतदस्ति, ज्ञानस्य विषयस्य च निजनिजक्षणं जनयित्वा समानकालमेव विनाशाभ्युपगमात् । न च स्वसंवेदनप्रत्यक्षेण वा क्षणिकता गृह्यत इति सौगतैरिष्यते, अनुमानगम्यत्वेन तस्यास्तैरभ्युपगमादिति ॥१२८॥ (१६७६) D. C.-An opponent may advance the following objection in this case Pramātrivijñāna though ksaņika and resorting to only one alambana, is able to recognize kşaạikatā of its own self as well as sphere. For, just as the knowledge that we are kşanika as our vişaya is kşaņika, is common in other cases also, all other objects and their spheres should also be considered as ksanika, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008004
Book TitleShraman Bhagvana Mahavira Part 3
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages586
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy