SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ :145: Vada] Ganadharavada insanity, producing satiety and quenching thirst etc. in its individual state. If consciousness were present in (each of the) bhūtas ( separately ), it could be (found) in the collection (also) (1652-1653). टीका-"न समुदये चेय ति" न भूतसमुदयमात्रप्रभवा चेतना, "पत्तेयमभावाउ ति" भूतप्रत्येकावस्थायां तस्या अंशतोऽपि सर्वथाऽनुपलब्धेरित्यर्थः । किं यथा किंप्रभवं न भवति ? इत्याह--" न रेणुनेल्लं व ति" यथा प्रत्येकं सवर्थाऽनुपलम्भाद् रेणुकणसमुदायप्रभवं तैलं न भवतीत्यर्थः । प्रयोगः-यद् येषु पृथगवस्थायां सर्वथा नोपलभ्यते तत् तेषां समुदायेऽपि न भवति, यथा सिकताकणसमुदाये तैलम् , यतु तेषां समुदाये भवति न तस्य पृथग् व्यवस्थितेषु तेषु सर्वथाऽनुपलम्भः, यथैकैकतिलावस्थायां तैलस्य, सर्वथा नोपलभ्यते च भूतेषु प्रत्येकावस्थायां चेतना, तस्माद् नासौ तत्समुदायमात्रप्रभवा, किन्वर्थापत्तरेवान्यत् किमपि जीवलक्षणं कारणान्तरं भूतसमुदायातिरिक्तं तत्र संघट्टितं, यत इयं प्रभवतीति प्रतिपत्तव्यम् । आह"प्रत्येकावस्थायां सर्वथाऽनुपलम्भात्" इत्यनैकान्तिकोऽयं हेतुः, । प्रत्येका वस्थायां सर्वथाऽनुपलब्धस्यापि मदस्य मद्याङ्गसमुदाये दर्शनात् , इत्याशड्क्याह-" मज्जंगेसु इत्यादि" धातकीकुसुमादिषु मद्याङ्गेषु पुनर्विष्वक् पृथग् न सर्वथा मदो नास्ति, अपि तु या च यावती च मदमात्रा पृथगपि तेष्वस्त्येवेत्यर्थः । ततो नानैकान्तिकता हेतोरिति । ___टीका-यथा प्रत्येकावस्थायां धातकीकुसुमेषु या च यावती च श्रमिश्चितभ्रमापादनशक्तिरस्ति, गुड-द्राक्षे-क्षुरसादिषु पुनर्घाणिरतृप्तिजननशक्तिरस्ति, उदके तु वितृष्णताकरणशक्तिरस्ति, आदिशब्दादन्येप्पषि मद्याङ्गेष्वन्यापि यथासंभवं शक्तिर्वाच्या, तथा तेनैव प्रकारेण व्यस्तेष्वपि पृथिव्यादिभूतेषु यदि काचिचैतन्यशक्तिरअविष्यत् , तदा तत्समुदाये संपूर्णा स्पष्टा चेतना स्यात्, न चैतदस्ति, तस्माद् न भूतसमुदायमात्रप्रभवेयमिति ॥ १०४-१०५ (१६५२-५३) ॥ D. C.-Since cètanā is not present in the individual state of a bhūta, even to a limited extent, it can never be found in 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008004
Book TitleShraman Bhagvana Mahavira Part 3
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages586
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy