________________
: 142:
Jinabhadra Gani's
[ The third
Vasudhadi-bhūta-samudaya sambhūta cètanèti tava sankā | Pratyèkamadrists'pi khalu madyangamada iva samudāyd. 102 (1651) Yathā madyangèṣu mado viśvagadriṣṭo'pi samudayè bhūtvā | Kālāntarè vinasyati tathā bhūtagane 'pi caitanyam. 103 (1651 ) ]
Trans.- 102-103. Your presumption is that consciousness ( cetana ) is produced from the collection ( samudaya ) of bhūtas like prithivi etc., because like intoxication ( mada ) though not found in each separate constituent, it is apprehended in the collection ( of those constituents ). Just as intoxication, though not present in each separate constituent of wine (madya ), is produced in the collection of these constituents, and disappears after a particular period of time, similarly consciousness (caitanya) is also produced in the collection of bhūtas and perishes as time passes. ( 1650-1651)
टीका -- वसुधा पृथ्वी, आदिशब्दादप्-तेजो - वायु-परिग्रहः, वसुधादय एव भवन्तीति कृत्वा भूतानि वसुधादिभूतानि तेषां समुदयः परस्परमिलनपरिणतिवसुधादिभूतसभूदयः, तस्मात् प्रागसती संभूता संजाता, चेतनेत्येवंभूता तव शङ्कां । सा च चेतना पृथिव्यादिभूतेषु प्रत्येकावस्थायामदृष्टापि धातकीकुसुम - गुडो- दकादिषु मद्याङ्गेषु मद इव तत्समुदाये संभूतेति प्रत्यक्षत एव दृश्यते । तदेवमन्वयद्वारेण चेतनाया भूतसमुदायधर्मता दर्शिता । अथ व्यतिरेकद्वारेण तस्यास्तां दर्शयितुमाह – “जह मअंगेसु इत्यादि " यथा मद्याङ्गेषु मदभावः प्रत्येकावस्थायामुदृष्टोऽपि तत्समुदाये भूत्वा तत्रः कियन्तमपि कालं स्थित्वा कालान्तरे तथाविधसामग्रीवशात् कुतश्चिद् विनश्यति, तथा भूतगणेऽपि प्रत्येक समचैतन्यं भूत्वा ततः कालान्तरे विनश्यति । ततोऽन्वयव्यतिरेकाभ्यां निश्चीयते भूतधर्म एष चैतन्यम् ।
इदमत्र हृदयम् - यत् समुदायिषु प्रत्येकं नोपलभ्यते तत्समुदाये चोपलभ्यते, ततस्तत्समुदायमात्रधर्म एव, यथा मद्याङ्गसमुदायधर्मो मदः । स हि मद्याङ्गेषु विश्वश्नोपलभ्यते, तत्समुदाये चोपलभ्यते, अतस्तद्धर्मः । एवं चेतनापि भूतसमुदाये भवति, पृथग् न भवति, अतस्तद्धर्मः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org