SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Jinabhadra Gani's [The second टीका - कर्म वाsनिच्छन्नग्निभूते गौतम ! यं कर्मरहितत्वात् शुद्धमेव जीवमात्मानमीश्वराव्यक्तकाल - नियति-यदृच्छादिकं वा देहादीनां कर्तारं मन्यसे, तत्राप्युच्यते - नासौ शुद्धजीवे-श्वरादिः कर्ता युज्यत इति ॥ 128: . , टीका- नायमीश्वरजीवादिरकर्मा शरीरादिकार्याण्यारभते, उपकरणाभावात् दण्डाद्युपकरणरहितकुलालवत् । न च कर्म विना शरीराधारम्मे जीवादीनामन्यदुपकरणं घटते, गर्भाद्यवस्थास्वन्योपकरणासंभवात्, शुक्र- शोणितादि ग्रहणस्याप्यकर्मणोऽनुपपत्तेः । अथवा, अन्यथा प्रयोगः क्रियते "निच्चेट्टेत्यादि” नाकर्मा शरीराद्यारभते, निश्रेष्टत्वात्, आकाशवत्, तथाऽमूर्तस्वात्, आदि शब्दादशरीरत्वात् निष्क्रियत्वात्, सर्वगतत्वात्, आकाशवदेव, तथा, एकत्वात्, एकपरमाणुवदित्यादि । अथोच्यते- शरीरवानीश्वरः, सर्वाण्यपि देहादिकार्याण्यारभते । नन्वीश्वरदेहारम्भेऽपि तर्हि तुल्यता पर्यनुयोगस्य, तथाहिअकर्मा नारभते निजशरीरमीश्वरः, निरुपकरणत्वात् दण्डादिरहितकुलालचदिति । अथान्यः कोऽपीश्वर स्तच्छरीराम्भाय प्रवर्तते । ततः सोऽपि शरीरवान्, अशरीरो वा १ । यद्यशरीरः, तर्हि नारभते, निरुपकरणत्वात्, इत्यादि सैव वक्तव्यता । अथ शरीरवान्, तर्हि तच्छरीरारम्भे तुल्यता, सोऽप्यकर्मा निजशरीरं नारभते, निरुपकरणत्वादित्यादि । अथ तच्छरीरमन्यः शरीरवानारभते । अतस्तस्याप्यन्यः, तस्याप्यन्य इत्येवमनवस्था । अनिष्टं च सर्वमेतत् । तस्माद् नेश्वरी देहादीनां कर्ता, किन्तु कर्मसद्वितीयो जीव एव । विष्प्रयोजनवेश्वरो देहादीन् कुर्वन्नुन्मत्तकल्प एव स्यात्, सप्रयोजनकर्तृत्वे पुनरनीश्वरत्वप्रसङ्गः । न चानादिशुद्धस्य देहादिकरणेच्छा युज्यते, तस्या रागविकल्परूपत्वात्, इत्याद्यत्र बहुवक्तव्यम्, ग्रन्थगहनतामसङ्गाचु नोच्यत इति । अनेनैव विधानेन विष्णु -- ब्रह्मादयोऽपि प्रत्युक्ता द्रष्टव्या इति ॥ ९३-९४ ॥ (१६४१ - १६४२) D. C.-O Agnibhūti Gautama! Leaving the Karman aside, it is absolutely improper to accept any one of jiva, Isvara, kala ( Time ), avyakta (Visnu), niyati ( Destiny ), or yadriccha ( self-will) to be the karta of deha etc. It is not possible for jiva and Isvara etc., to accomplish Kārvas such as sartra etc., without the help of Karman. jiva Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008004
Book TitleShraman Bhagvana Mahavira Part 3
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages586
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy