________________
Vida ) Ganadharavada
: 108: intentionally performs a deed givirig an invisible and undesired reward, therefore, do conclude that all actions (good and bad): invariably give an unseen fruit and that action (which produces a drsta fruit ) does not invariably produce a visible fruit hecause of the power of the adrsta (the evil) unseen of the doer.t
टाका-यसादनिष्टभोगभाजो बहुतरा भूयांस:-अशुभकर्मविपाक जनितदुःखमाज एव प्राणिनः प्रचुरा इहोपलभ्यन्ते, शुभकर्मविपाकनिवन्धनसुखानुभवितारस्तु स्वल्पा एवेति भावः । तेन तस्मात् कारणात् सौम्य ! प्रतिपद्यस्व शुभाऽशुभा वा सर्वाऽपि क्रिया, अदृष्टं शुभाशुभं कर्मरुपमैकान्तिक फलं यस्याः साऽदृष्टैकान्तिकंफलेत्युत्तरगाथायां संबन्धः । इदमुक्तं भवति-येन दुःखिनोऽत्र बहवः प्राणिनो दश्यन्ते सुखिनस्तु स्वल्पाः, तेन ज्ञायते कृषिवाणिज्य-हिंसादिक्रियानिबन्धनाशुभकर्मरूपादृष्टफलविपाको दुःखिनाम्, इतरेषां तु दानादिक्रियाहेतुकशुभकर्मरूपादृष्टफलविपाक इति। व्यत्ययः कस्मात् न भवति इति चेत् । उच्यते-अशुभक्रियारम्भिणामेव बहुत्वात् , शुभक्रियानुष्टातृणामेव च स्वल्पत्वादिति ।
अत्राह-नन्वशुभक्रियारम्मफलामपि यद्यदृष्टफकं भवति, तत् किमिति दानादिक्रियारम्मक इव तदारम्भकोऽपि कश्चित् तदाशंसां कुर्वाणो न दृश्यते । इत्याह-"जं च नेहेत्यादि" यमाच नेहादृष्टमनिष्टमशुभ फलं यस्याःसाऽदृष्टानिष्टफला तामित्थंभूतां क्रियां मतिपूर्वामाशंसाबुद्धिपूर्विकां कोऽपि समारभते, इत्यतो न कोऽपि तदाशंसां कुर्वाणो दृश्यते । तस्मात् सर्वापि क्रियाऽदृष्टैकान्तिकफलेति प्रतिपद्यस्वेति ।
पुनरपि कथंभूताः ? इत्याह-"दिवायेगंतफल ति" दृष्टं धान्यद्रविणलाभादिकमनैकान्तिकमनवश्यंभावि फलं यस्यः कृषिवाणिज्यादिक्रियायाः सा दृष्टानैकान्तिकफला सर्वापि क्रिया । इदमुक्तं भवति-सर्वस्या अपि क्रियाया अदृष्टं फलं तावदेकान्तेनैव भवति, यतु दृष्फलं तदनकान्तिर कमेव-कस्याश्चित् तद् भवति कस्याचिद् नेत्यर्थः । एतच दृष्टफलम्यानैकान्तिकत्वमदृष्टानुभावेनैवेति प्रतिपत्तव्यम् । न हि समानसाधनारब्धतुलयक्रि + Vide our note at the end of the commentary on Verse 1624
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org