________________
२४०
तृतीयः पादः
(सूत्र) शेषेऽदन्तवत् ।। १२४।। (वृत्ति) उपर्युक्तादन्यः शेषस्तत्र स्यादिविधिरदन्तवदतिदिश्यते ।
येष्वाकाराद्यन्तेषु पूर्वं कार्याणि नोक्तानि तेषु जसशसोलुंक् (३.४) इत्यादीनि अदन्ताधिकारविहितानि कार्याणि भवन्तीत्यर्थः। तत्र जस्शसोलुंक् इत्यतेत्कार्यातिदेशः। माला गिरी गुरू सही वहू रेहन्ति पेच्छ वा। अमोऽस्य (३.५) इत्येतत्कार्यातिदेशः। गिरिं गुरुं सहिं वहुं गामणिं खलपुं पेच्छ। टा-आमोर्णः (३.६) इत्येतत्कार्यातिदेशः। हाहाण कयं। मालाण गिरीण गुरूण सहीण वहूण१० धणं। टायास्तु। टो णा (३.२४)। टाङस्ङेरदादिद्वेद्वा तु ङसे: (३.२९) इति विधिरुक्तः। भिसो हि हिँ हिं (३.७) इत्येतत्कार्यातिदेशः। मालाहि गिरीहि गुरूहि सहीहि वहूहि कयं। एवं सानुनासिकानुस्वारयोरपि। ङसेस् त्तोदोदुहिहिन्तोलुकः (३.८) इत्येतत्कार्यातिदेशः। मालाओ मालाउ मालाहिन्तो। बुद्धीओ बुद्धीउ बुद्धीहिन्तो। धेणूओ घेणूउ धेणूहिन्तो आगओ। हिलुकौ तु प्रतिषेत्स्येते (३.१२७, १२६)। भ्यसस् त्तो दो दु हि हिन्तो सुन्तो (३.९) इत्येतत्कार्यातिदेशः। मालाहिन्तो मालासुन्तो। हिस्तु निषेत्स्यते (३.१२७)। एवं गिरीहिन्तो इत्यादि। ङसः स्स: (३.१०) इत्येतत्कार्यातिदेशः। गिरिस्स। गुरुस्स। दहिस्स। महस्स११। स्त्रियां तु टाङस्ङे : (३.२९) इत्याधुक्तम्। ढे म्मि २ः (३.११) इत्येतत्कार्यातिदेशः। गिरिम्मि। गुरुम्मि। दहिम्मि। महुम्मि। डेस्तु निषेत्स्यते (३.१२८)। स्त्रियां तु टाङस्ङेः (३.२९) इत्याधुक्त म्। जसशस्ङ सित्तो दो द्वामि दीर्घ : (३.१२) इत्येतत्कार्यातिदेशः। गिरी गुरू चिट्ठन्ति। गिरीओ गुरूओ आगओ। गिरीण गुरूण धणं। भ्यसि वा (३.१३) इत्येतत्कार्यातिदेशो न प्रवर्तते। इदुतो दीर्घः (३.१६) इति नित्यं विधानात् । टाणशस्येत् (३.१४) भिस्भ्यस्सुपि (३.१५) इत्येतत्कार्यातिदेशस्तु निषेत्स्यते (३.१२९)।
१० वधू
११ मधु